________________
5
[कर्णिकासमन्विता उपदेशमाला । गाथा-२०]
प्रबुद्धो बालमप्येष न्यस्य राज्येऽङ्गजं निजे । भेजे व्रतं भवाम्भोधौ पोतवत्पोतनाधिपः ॥१३७॥ विश्वाब्जग्रहनाथेन सह नाथेन पर्यटन् । क्रमाज्जज्ञे स राजर्षिः समुत्कर्षितपोगुणः ॥१३८॥ ययौ जिनोऽन्यदा राजगृहं राजगृहेश्वरः । तत्प्रणामाय सामात्यश्रेणिकः श्रेणिकोऽचलत् ॥१३९॥ तप:कृशं रविदृशं पादेनैकेन भूस्पृशम् । प्रसन्नचन्द्रराजर्षि मार्गे हर्षी ननाम सः ॥१४०॥ अहो महर्षेरुत्कर्षे ध्यानं महति वर्त्तते । इति ध्यायन्नयं गत्वा ननाम स्वामिनं नृपः ॥१४१॥ पप्रच्छ च प्रभुं स्वामिन् ! महर्षिर्वन्दितो मया । यदा तदा विपद्येत यद्युत्पद्येत कुत्र तत् ॥१४२॥ सप्तमी भुवमित्युक्ते प्रभुणाऽथ भुवः प्रभुः । दध्यौ साधोर्गतिः क्वेदृग् न तु सम्यग् मया श्रुतम् ॥१४३।। क्षणान्तरेण भूयोऽपि भूपोऽपृच्छत् प्रभो ! यदि । स म्रियेताऽधुना साधुः साधयेत् कां गतिं ततः ॥१४४॥ सर्वार्थसिद्धमित्युक्ते जिनेनाऽथ जगौ नृपः । मया नेश ! श्रुतं सम्यक् किं वः किं वा द्विधोदितम् ॥१४५॥ प्रभुरभ्यधिताऽस्मद्वाग्भेदस्तद्ध्यानभेदतः । तपोभृतामपि ध्यानं सदसद्गतिकारणम् ॥१४६॥
10 तदा हि त्वदनीकस्य मुखे सुमुख-दुर्मुखौ । द्वौ नरावीयतुर्मिथ्यादृशौ स्वैरकथादिशौ ॥१४७।। तथास्थं तं मुनि वीक्ष्य सुमुखो दुर्मुखं जगौ । अस्येक्तपसः स्वर्गापवर्गों किल हस्तगौ ॥१४८॥ प्रत्यूचे दुर्मुखो मैतत् कथामपि वृथा कृथाः । दर्शनं स्पर्शनं नामाप्यस्य पापकृते सताम् ॥१४९॥ असौ हि सुखसौहित्यं भूरक्षादुःखतः श्रितः । केशभाराऽसहशिरस्युर्वीभारं सुते न्यधात् ॥१५०॥ स्वयं क्ष्माभारशक्तोऽपि सैष पाखण्डपण्डितः । राज्यभारादपि त्रस्तो ही रजोहरणं श्रितः ॥१५१॥ 15 राज्यादिदानी चम्पेशदधिवाहनसंहतैः । सूनुः सोऽस्य शिशुः क्रूरैः सचिवैश्च्यावयिष्यते ॥१५२॥ इत्थं मिथ्यात्वदावाग्निशिखाभिर्दुर्मुखोक्तिभिः । दग्धध्यानतरुर्दध्यौ स महर्षिरमर्षितः ॥१५३।। मया ये रमिता बाल्ये गमिता यौवने श्रियम् । हहा तेऽपि महामात्या ममोच्छिन्दन्ति नन्दनम् ॥१५४॥ भवेयं यद्यहं तत्र हन्त त्रस्यद्भुजौजसाम् । तेषां कुर्यामनार्याणां निधनं पंधनेन तत् ॥१५५॥ इत्यादिमलिनध्यानसञ्जातव्रतविस्मृतिः । मनसा राजमानी स मानी तान् योद्धमुद्यतः ॥१५६॥ 20 स ईदृक् समरारम्भसंरम्भनिभृतस्त्वया । अवन्दि मन्दितशुभोत्करको नरकोचितः ॥१५७॥ त्वय्यागते रणोत्क्षेपक्षीणास्त्रं स्वममंस्त सः । हन्तुं शत्रु शिरस्त्रेण मूनि हस्तमुदस्तवान् ॥१५८|| स निष्केशशिरः स्पर्शप्रतिबुद्धः स्मृतव्रतः । धिग् धिग् धियं ममेति स्वं निरानन्दो निनिन्द च ॥१५९॥ अथाऽऽलोच्य प्रतिक्रम्य सम्यग् ध्यानमयं श्रितः । सर्वार्थसिद्धियोग्यत्वं प्राप प्रश्नान्तरे तव ॥१६०॥ इदमम्भोदगम्भीरशब्दं निगदतः प्रभोः । प्रतिशब्द इवाकाशे दिव्योऽभूद् दुन्दुभिध्वनिः ॥१६१॥ 25
१. कुत्रचित् - A, P। २. वान्यथोदितं - CI
टि. 1. विश्व एव अब्जं, तद्विकासने ग्रहनाथः सूर्य: नाथस्य विशेषणम्। 2. केशस्य भारमपि न सहते शिरो यस्य स केशभारासहशिराः, तस्मिन् । 3. प्रधनम्-युद्धं, तेन । 4. शिरस्त्राणम् तेन ।