________________
62
मतिज्ञानं स्पर्शनादीन्द्रियानिन्द्रियहेतुकम् । श्रुतं तु स्याल्लब्धितोऽपि, पदानुसारिणामिव ।। ७४६ ॥ इत्याद्यधिकं तत्वार्थवृत्यादिभ्योऽवसेयम् ।
चतुर्दशविधं तच्च, यद्वा विंशतिधा भवेत् । चतुर्दशविधत्वं तु तत्रैवं परिभाव्यते ।। ७४७ ।। अक्षरश्रुतमित्येकं, स्याद् द्वितीयमनक्षरम् । तार्त्तीयिकं संज्ञिश्रुतं, तुर्यं श्रुतमसंज्ञिनः ॥ ७४८ ॥ सम्यक् श्रुतं पञ्चमं स्यात्, षष्ठं मिथ्याश्रुतं भवेत् । सादिश्रुतं सप्तमं स्यादनादिश्रुतमष्टमम् ॥ ७४९ ॥ सान्तश्रुतं तु नवममनन्तं दशमं श्रुतम् । एकादशं गमरूपमगमं द्वादशं पुनः ।। ७५० ॥ त्रयोदशं त्वङ्गरूपमङ्गबाह्यं चतुर्दशम् । प्रायो व्यक्ता अमी भेदास्तथापि किञ्चिदुच्यते ।। ७५१ ।। तत्राक्षरं त्रिधा संज्ञाव्यञ्जनलब्धिभेदतः । तत्र संज्ञाक्षरमेता लिपयोऽष्टादशोदिता: ।। ७५२ ।।
तथाहि
२
३
४
५
७
९
१०
११
१४
१५
१७
१८
हंसलिवी भूअलिवी, जख्खा तह रक्खसीय बोधव्या । उड्डी जवणी तुकी कीरा दविडी य सिंधविआ ॥ मालविणी नडि नागरी लाडलिवी पारसी य बोधव्वा । तह अनिमित्तीअलिवी चाणक्की मूलदेवी य ॥ अकारादिहकारान्तं, भवति व्यञ्जनाक्षरम् । अज्ञानात्मकमप्येतद्, द्वयं स्यात् श्रुतकारणम् ॥ ७५३ ।। ततः श्रुतज्ञानतया, प्रज्ञप्तं परमर्षिभिः । लब्ध्यक्षरं त्वक्षरोपलब्धिरर्थावबोधिका ॥ ७५४ ।। तच्च लब्ध्यक्षरं षोढा, यत् श्रोत्रादिभिरिन्द्रियैः । बोधोऽक्षरानुविद्धः स्याच्छब्दार्थालोचनात्मकः ।। ७५५ ।। यथा शब्दश्रवणतो, रूपदर्शनतोऽथवा । देवदत्तोऽयमित्येवंरूपो बोधो भवेदिह ।। ७५६ ।। एवं शेषेन्द्रियभावना कार्या ॥
तैरक्षरैरभिलाप्यभावानां प्रतिपादकम् । अक्षरश्रुतमुद्दिष्टमनक्षरश्रुतं परम् ।। ७५७ ।। तथोक्तम्—उससिअं नीससिअं, निच्छूढं खासिअं च छीअं च । निस्संधियमणुसारं अणक्खरं छेलियाईयं ॥ [विशेषावश्यक श्लो. ५०५ ] अयं भावःकासितक्ष्वेडिताद्यं यन्मामाह्वयति वक्ति वा । इत्याद्यन्याशयग्राहि, तत्स्यात् श्रुतमनक्षरम् ॥ इह च शिरः कम्पनादिचेष्टानां पराभिप्रायज्ञानहेतुत्वे सत्यपि श्रवणाभावान्न श्रुतत्वम् । तदुक्तं विशेषावश्यकसूत्रवृत्तौ — “ रुढीइ तं सुअं सुब्बइति चेट्ठा न सुब्बइ कयावि त्ति” ॥ [विशेषावश्यक श्लो. ५०४ ] उक्तन्यायेन श्रुतत्वप्राप्तौ समानीतायामपि तदेवोच्छु सितादि श्रुतं न शिरोधूननकरचालनादिचेष्टा । यतः शास्त्रज्ञलोकप्रसिद्धा रूढिरियमिति ।। कर्मग्रन्थवृत्तौ तु शिरः कम्पनादीनामपि अनक्षरश्रुतत्वमुक्तम् ।
१. औत्पत्तिक्यादौ अनिश्रितादौ च मतिभेदे एवं भावः, परचित्तज्ञानाद्यपि तत्र लब्धिभूतं । २. स्वातन्त्र्येण लक्षितमिदं, संज्ञाव्यञ्जनाक्षरोत्पन्नमपि तथा ३. बालक्रीडापनशब्दादि ४. संज्ञाव्यञ्जनाक्षरोपयोगाभावेऽपि विवक्षारुपभावश्रुतज्ञानोत्पत्तेः, श्रवणरुढेस्तुव्युत्पत्त्यङ्गतयैवोपयोगात्