SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ 694 अत्यंगतियं नो वेदेति, णातमेयं अरहता, विण्णायमेतं अरहता, अयं जीवे इमं कम्मं अज्झोवगमियाय वेदणाए वेदिस्सति, अयं जीवे इमं कम्मं उवकृमियाए वेदणाए वेदिस्सति, अहाकम्मं अहानिकरणं जहा जहा तं भगवया दिलै, तहा तहा विपरिणमिस्सतीति, से तेणेढेणं एवं वुच्चति । य: कर्मणां विपाकेनानुभव: सोदयो भवेत् । स एवौदयिको भावो, निवृत्तस्तेन वा तथा ॥ १६ ॥ य एव जीवाजीवानां, स्वरूपानुभवं प्रति । प्रवीभाव: परीणामः, स एव पारिणामिकः ॥ १७ ॥ परिणामेन निवृत्त, इति चात्र न संभवेत् । अस्यां निरुक्तौ सादित्वं, जीवत्वादेः प्रसज्यते ॥ १८ ॥ अत्र चाद्यास्त्रयः प्रादुर्भवेयुः कर्मघाततः । जोऽभ्रविगमे तिग्मरश्मिकान्तिकलापवत् ॥ १९ ॥ सर्वतो देशतश्चेति, विघात: कर्मणां द्विधा । आय: स्ववीर्यापेक्षोऽन्यः, सकर्मात्मप्रयोगजः ॥ २० ॥ तुर्यस्तु भावः स्वोपात्तकर्मोदयसमुद्भवः । सुरामदोदयाद्गीतनृत्तहास्यादिभाववत् ॥२१॥ पारिणामिकभावस्तु, निर्दिष्टो निनिमित्तकः । अत एव स्वार्थिकोऽत्र, प्रत्ययो राक्षसादिवत् ॥ २२॥ आदिमाश्च त्रयो भावा, जीवानामेव निश्चिताः । अन्तिमौ तौ पुनर्जीवाजीवसाधारणौ स्मृतौ ॥ २३ ॥ एकत्र ब्यादिभावानां, सन्निपातोऽत्र वर्त्तनम् । यो भावस्तेन निवृत्तः, स भवेत्सान्निपातिकः ॥ २४ ॥ कर्मग्रन्थसत्रवृत्तितत्त्वार्थभाष्यभावप्रकरणादिष्वयमेव भावषदकोहेशक्रमः, अनयोगद्धारसूत्रमहाभाष्यसूत्रवृत्त्यादिषु तु औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निापातिका भावा इति. तत्र कर्मग्रन्थादिसूत्रेषु यत्प्रवचनोक्तक्रमलङ्घनं तत्र लाघवं कालस्वामिभेदतारतम्यं च हेतुमामनन्ति । आन्तमौहूर्तिकत्वेन, यत आयोऽल्पकालिकः । तथाऽल्पस्वामिक इति, प्रथमं स प्ररूपितः ॥२५॥ न प्राप्नुयुर्यबहवः, परिणाममिहेदृशम् । भावस्तदौपशमिको, मितस्वामिक इष्यते ॥ २६ ॥ भूरिभेदो भूरिकालो, भूरिस्वामिक एव च । क्षायिको ह्यौपशमिकात्तदुक्तस्तदनन्तरम् ॥ २७ ॥ क्षायोपशमिकः पश्चात्क्षायिकात्तत एव च । एवमौदयिकः प्रोक्तः, क्षायोपशमिकादनु ॥ २८ ॥ ततो भूरिकर्मयोगात्, स्वामिसाधर्म्यतोऽपि च । युक्तं क्षायोपशमिकादन्वौदयिकशंसनम् ॥ २९॥ अत्यन्तभिन्न: पूर्वभ्यो, महाविषय एव यत् । पारिणामिक इत्युक्तो, भावादौदयिकादनु ॥ ३० ॥ पूर्वेषां यादिसंयोगादाविर्भवति यन्ननु । तद्युक्तमुदितः सर्वपर्यन्ते सान्निपातिकः ॥ ३१ ॥ दौ नवाष्टादशाथैकविंशतिश्च त्रय: क्रमात् । एषामुत्तरभेदाः स्युस्त्रिपञ्चाशच्च मीलिताः ॥ ३२ ॥ औ० २ क्षायि० ९ क्षायो० १८ औद० २१ पा० ३ सर्व० ५३ । सान्निपातिकभावस्तु, षड्विंशतिविधो भवेत् । तत्रोपयुक्ताः षड्भेदा, विंशतिस्त्वप्रयोजकाः ॥ ३३ ॥ सम्यक्त्वं यद्भवत्यादौ ग्रन्थिभेदादनन्तरम् । स्यायच्चोपशमश्रेण्यां, सम्यक्त्वं चरणं तथा ॥ ३४ ॥ दावौपशमिको भावौ, प्रोक्तावेतौ महर्षिभिः । बूमहे क्षायिकस्याथ, नवभेदान् यथागमम् ॥ ३५ ॥ ये ज्ञानदर्शने स्यातां, निर्मूलावरणक्षयात् । सम्यक्त्वं यच्च सम्यक्त्वमोहनीयक्षयोद्भवम् ॥ ३६॥ चारित्रं यच्च चारित्रमोहनीयक्षयोत्थितम् । याश्च दानाद्यन्तरायपञ्चकक्षयसंभवाः ॥ ३७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy