SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ 686 अणुभागट्ठाणेसुं, अणंतरपरंपराविभत्तेहिं । भावंमि बायरो सो सुहुमो सब्वेसऽणुक्कमसो ॥ इति पञ्चसंग्रहे [द्वितीयद्धार श्लो. ४१] । अथात्रानुभागबन्धस्थानस्वरूपनिरूपणायोपक्रम्यतेप्राग् यानि कर्मयोग्यानि, द्रव्याण्युक्तानि तान्यथ । स्वाधिष्ठिताभ्रप्रदेशावगाढानीह चेतनः ॥७५ ॥ उपादाय कर्मतया, द्राक् परिणमयत्ययम् । किञ्चित्साधर्म्यतो वह्निदृष्टान्तोऽत्र निरूप्यते ॥७६ ॥ यथा दहनयोग्यानि, द्रव्याणि ज्वलनोऽपि हि । स्वगोचरस्थितान्येव, प्रापयेदतिरूपताम् ॥७७ ॥ न तु स्वविषयातीतान्यग्नितां नेतुमीश्वरः । जीवोऽपि स्वप्रदेशेभ्यो, द्रव्यमेवं बहिः स्थितम् ॥ ७८ ॥ नैव कर्मयोग्यमपि, कर्मतां नेतुमीश्वरः । गृह्णाति तानि जीवश्च, सर्वैरात्मप्रदेशकैः ॥७९॥ तथाहि-जीवप्रदेशाः सर्वेऽपि, शृङ्खलावयवा इव । स्युः परस्परसंबद्धाः, प्रतीका वपुषीव वा ॥ ८० ॥ एकस्मिन्नपि तज्जीवप्रदेशे व्यापृते सति । सर्वेऽपि व्याप्रियन्तेऽन्ये, ग्रहीतुं कर्मणां दलम् ॥ ८१ ॥ यथा घटायुपादातुं, कराग्रे व्यापृते सति । मणिबन्धकूर्परांसादयोऽप्यवयवाः परे ॥ ८ ॥ व्याप्रियन्ते मन्दमन्दतरमन्दतमं ध्रुवम् । एवं सर्वात्मप्रदेशव्यापारः कर्मसंग्रहे ॥८३ ॥ इदं च कर्मद्रव्याणां, ग्रहणं सादि भाव्यताम् । तद्रव्यदेशकालाद्यैः, स्यादनादिप्रवाहत: ॥ ८४ ॥ एषां च कर्मद्रव्याणां, भागप्राप्तिर्यथा भवेत् । एकेनाध्यवसायेन, गृहीतानां तथोच्यते ॥ ८५ ॥ क्रमान्महत्तरो भागो, महास्थितिककर्मणाम् । एवं स्थित्यनुसारेण, भागोऽष्टास्वपि कर्मसु ॥८६॥ आयुषस्तत्र सर्वेभ्यः, स्तोको भागो भवेदिह । सर्वेभ्योऽल्पस्थितिकत्वाद्विशेषाभ्यधिकस्ततः ॥ ८७ ॥ कर्मांशानां भवेद्भागः, कर्मणो मगोत्रयोः । परस्परापेक्षया तु, द्वयोः स्यादेतयोस्समः ॥ ८८ ॥ ज्ञानदर्शनावरणान्तरायाणां बृहत्तमः । भागः स्यान्नामगोत्राभ्यां, त्रयाणां च मिथः समः ॥ ८९ ॥ तेभ्योऽपि मोहनीयस्य, भवेद्भागो बृहत्तमः । न्याय्यो महास्थितेरस्य, महतां ह्यखिलं महत् ॥ ९०॥ वेदनीयस्य भागः स्यान्मोहादल्पस्थितेरपि । सर्वेभ्योऽपि महीयान् यत्तत्र हेतुर्निशम्यताम् ॥ ९१ ॥ भागेऽल्पे वेदनीयस्य, स्फुटत्वं सुखदुःखयोः । नानुभावयितुं शक्तमिदं तादृक् स्वभावतः ॥ ९२ ॥ वेदनीयं च भवति, प्रभूतदलिकं यदि । तदा स्वफलभूते ते, सुखदुःख्ने स्फुटात्मके ॥ ९३ ॥ ईष्टे व्यक्त्या दर्शयितुं, नान्यथेत्यंशकल्पना । एकाध्यवसायोपात्तकर्मद्रव्येषु भाव्यताम् ॥ ९४ ॥ स चैकोऽध्यवसाय: स्यान्नानावैचित्र्यभाजनम् । अस्मिन्नेकस्वरूपे हि, भवेत्कर्मापि तादृशम् ॥ ९५ ॥ विना कारणभेदं हि, कार्यभेदो न संभवेत् । कर्मवैचित्र्यबीजस्य, तदस्यापि विचित्रता ॥ ९६ ॥ अयं विचित्रतागर्भोऽध्यवसाय: स्वयं व्रजेत् । संक्लेशं वा विशुद्धिं वा, तादृक्सामग्ग्रपेक्षया ॥ ९७ ॥ सामग्री च द्रव्यक्षेत्रकालभावात्मिका तया । संक्लिष्टो वा विशुद्धो वाऽध्यवसाय: शरीरिणाम् ॥ ९८ ॥ कदाप्यष्टविधे बन्धे, हेतुर्भवति कर्हिचित् । सप्तविधे षड्विधे च, कदाऽप्येकविधेऽपि सः ॥ ९९ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy