________________
625
देवी च पन्नगाभिख्या, सा कंदर्पा मतान्तरे । चतुर्भुजा गौरवर्णा, राजते मत्स्यवाहना ॥ ६३८ ॥ उत्पलाशसंयुक्तसद्दक्षिणकरद्वया । पद्माभयाञ्चिता वामपाण्योर्धत्ते सुखं सताम् ॥ ६३९ ॥
इति श्रीधर्मनाथ: ॥ श्रीषेणभूपतिः पूर्वं, तद्राज्ञी चाभिनन्दिता । उभौ युगलिनौ जातो, ततो जातौ सुधाभुजौ ॥ ६४०॥ ततश्चामिततेज: श्रीविजयाख्यौ महद्धिकौ । ततश्च प्राणतस्वर्ग, सुपर्वाणौ बभूवतुः ॥ ६४१ ॥ बलदेववासुदेवौ, ततो जातौ महाभुजौ । बलोऽभूदच्युताधीशो, हरिस्त्वाद्यां भुवं ययौ ॥ ६४२ ॥ उद्धृतस्तु ततोऽवाप्य, नेचराधीशतां हरिः । परिव्रज्याच्युतस्वामिसामानिक सुरोऽभवत् ॥ ६४३ ॥ ततश्च्युत्वाऽऽदिमो वज्रायुधाहश्चक्रवर्त्यभूत् । तदङ्गजोऽपरस्त्वासीत्, सहस्रायुधसंज्ञकः ॥ ६४४ ॥ ग्रैवेयके तृतीये तो, जग्मतुर्जनकाङ्गजौ । मतान्तरे च नवमे, गतौ ग्रैवेयकेऽथ तौ ॥ ६४५ ॥ विजये पुष्कलावत्यां, जम्बूद्वीपे ततश्च्युतौ । नगर्यां पुण्डरीकिण्यामभूतां सोदरावुभौ ॥ ६४६ ॥ मेघस्थदृढरथौ, श्रीमेघरथमेकदा । प्रशशंस मुदेशानसुरेन्द्रः सुरपर्षदि ॥६४७ ॥ अहो मेघरथस्यान्तः, स्फुरन् जीवदयारसः । न शक्यते शोषयितुं, कृतयत्नैः सुरैरपि ॥ ६४८॥ अश्रद्दधानस्तत्कश्चिद्देवः शूलभृतो वचः । परीक्षितुं नृपं दक्षंमन्यो भूलोकमाययौ ॥ ६४९ ॥ पूर्ववैरायुध्यमानौ, श्येनपारापतावथ । अधिष्ठाय सदम्भेनाजगाम नृपसन्निधौ ॥६५०॥ ऊचे पारापतस्तत्र, रक्ष रक्ष कृपानिधे ! । श्येनो हिनस्ति मां पीनो, दीनं निःशरणं हहा ॥ ६५१ ॥ ऊचे वीक्ष्य भयार्त्त तं, समुत्पन्नकृपो नृपः । यमादपि प्रकुपितान्मा भैषीथि ते भयम् ॥ ६५२ ॥ कम्पमाने खगे तस्मिन्नृपोत्सङ्गमुपाश्रिते । श्येनोऽपि सहसाऽऽगत्य, क्षुधाक्षामोऽब्रवीदिति ॥ ६५३ ॥ रक्ष रक्ष क्षुधा मार्यमाणं मां दक्षपुङव ! । देहि देहि चिरात्प्राप्तं, भक्ष्यं पारापतं मम ॥ ६५४ ॥ एकस्योपेक्षसे प्राणांस्तानन्यस्य च रक्षसि । तुल्येऽपि कोऽयं जीवत्वे, पक्तिभेद: किलावयोः ? ॥ ६५५ ॥ श्येनमूचे नृपः पक्षिन् !, दीनोऽयं मुच्यतां खगः । गृहाण नानापक्वान्नं, दयाधमोऽस्तु ते महान् ॥ ६५६ ॥ श्येन: प्रोचे च भूपाल !, धर्माधर्मविचारणा । भवादृशां स्यात्तृप्तानां, क्षुधार्तानां तु सा कुत: ? ॥ ६५७ ॥ विना सद्यस्कमांसं च, नाहारोऽस्मादृशां परः । तद् द्रुतं दीयतामेष, हत्या वा गृह्यतां मम ॥ ६५८ ॥ नृपोऽथाचिन्तयत्पारापतोऽयं सर्वथा मया । रक्षणीयोऽयमप्यङ्गी, तर्पणीयो बुभुक्षितः ॥ ६५९ ॥ श्येनं तत्तर्पयाम्येनं, निजैर्मासैर्यथोभयोः । दया स्यान्ननु देहेऽस्मिन्, कः स्नेहः क्षणभङ्गरे ? ॥६६०॥ ततस्तुलायामारोप्य, मायापारापतं नृपः । उत्कृत्य स्वोरुमांसानि, तोलयामास सात्त्विकः ॥ ६६१ ॥ यथा यथा स्वमांसानि, तुलायां भूधवो न्यधात् । तथा तथा प्रववृधे, कपोतो वीवधेनं सः ॥ ६६२ ॥ दीनानने पुरजने, क्रन्दत्यन्तःपुरेऽखिले । तुलामारुह्य सोत्साहं, स्पेन: श्येनमित्यवक् ॥ ६६३ ॥