________________
592
उत्पत्तिः सर्ववस्त्राणां, रङ्गाद्यारचनाऽपि च । ख्याता निधौ महापद्मे, विधिश्च क्षालनादिकः ॥ ४५७ ॥
इति पञ्चमः ॥ कालज्ञानं निधौ काले, ज्योतिःशास्त्रानुबन्धि यत् । तथा वंशास्त्रयो येऽर्हच्चक्रभृत्सीरिशार्षिणाम् ॥ ४५८ ॥ तेषु वंशेषु यद्भूतं, वर्तमानं च भावि यत् । शुभाशुभं तद्भिज्ञेयं, सर्वमस्मान्महानिधेः ॥ ४५९ ॥ कर्मणां कृषिवाणिज्यादीनां शिल्पशतस्य च । निरूपिता स्थिति:सर्वाप्यस्मिन्नेव महानिधौ ॥ ४६० ॥
इति षष्ठः ॥ नानाविधस्य लोहस्य, स्वर्णस्य रजतस्य च । मणीनां चन्द्रकान्तार्ककान्तादीनां महात्विषाम् ॥ ४६१ ॥ मुक्तानां स्फटिकानां च, प्रवालानां य आकराः । तेषामुत्पत्तिराख्याता, महाकाले महानिधौ ॥ ४६२ ॥
इति सप्तमः ॥ खङ्गकुन्तादिशस्त्राणां, नानाऽऽवरणवर्मणाम् । उत्पत्तियुद्धनीतिश्च, सद्व्यूहरचनादिका ॥ ४६३ ॥ सामदानादिका दण्डनीतयो विविधाश्च या: । हाकाराद्याश्च ता: सर्वाः, प्रोक्ता माणवके निधौ ॥ ४६४ ॥ ताः स्युर्हाकारमाकारधिक्काराः परिभाषणम् । मण्डले बन्धनं काराक्षेपणं चाङ्गखण्डनम् ॥ ४६५ ॥ परिभाषणमाक्षेपान्मा गा इत्यादि शंसनम् । संरोध इड़िते क्षेत्रे, मण्डले बन्ध उच्यते ॥ ४६६ ॥
तथोक्तं स्थानाङ्गे – 'सत्तविहा दंडनीई पण्णत्ता, तं० हक्कारे १ मक्कारे २ धिक्कारे ३ परिभासे
४ मंडलिबंधे ५ चास्ते ६ छविच्छेदे ७ ॥ इत्यष्टमः ॥ सर्वोऽपि नाट्यकरणप्रकारो नाटकस्य च । अभिनेयप्रबन्धस्य, प्रकारा येऽप्यनेकशः ॥ ४६७ ॥ चतुर्विधस्य काव्यस्य, तूर्याङ्गाणां च भूयसाम् । नानाविधानामुत्पत्तिः, ख्याता शङ्ख महानिधौ ॥ ४६८ ॥ काव्यचातुर्विध्यं चैवं त्रेधाधर्मार्थकाममोक्षाख्यं, पुरुषार्थचतुष्टयम् । काव्यं तत्प्रतिबद्धत्वाबुधैरुक्तं चतुर्विधम् ॥ ४६९ ॥ संस्कृतं प्राकृतं चापभ्रंशं संकीर्णकेति च । भाषाश्चतस्रस्तद्धद्धं भवेत्काव्यं चतुर्विधं ॥ ४७० ॥ तत्र संस्कृतप्राकृते प्रतीते, अपभ्रंशो भवेत्तत्तद्देशेषु शुद्धभाषितम् । संकीर्णा सौरसेन्यादिर्भाषा प्रोक्ता विचक्षणैः ॥ ४७१ ॥ गद्यं पद्यं च गेयं च, चौर्णं चेत्यथवा भिदः । तत्र स्याद्द्यमच्छंदोबद्धं बद्धं च तैः परम् ॥ ४७२ ॥ गान्धर्वरीत्या यदद्धं, गेयं गानोचितं हि तत् । चौर्णं भूरि बाहुलकगमाव्ययनिपातयुक् ॥ ४७३ ॥
इति नवमः ॥ नवयोजनविस्तीर्णा, द्वादशयोजनायताः । उच्छ्रिता योजनान्यष्टावष्टचक्रप्रतिष्ठिताः ॥ ४७४ ॥ सौवर्णा विविधै रत्नैः, पूर्णा वैडूर्यरत्नजैः । कपाटेश्वारुरचनारमणीयैरलङ्कताः ॥ ४७५ ॥