________________
559
दश दिकसंयोगजा लब्धाः , एवं त्रिकसंयोगजा अपि दश यथा-१-२-३ । १-२-४ । १-२५। १-३-४ । १-३-५ । १-४-५ । एवमेकचारणया षट् २-३-४ । २-३-५ । २-४-५ ।
इति द्वितीयचारणया त्रयः । ३-४-५ एवं तृतीयचारणया त्वेकः, इति. व्रतानां च द्वादशानामेवं विज्ञैर्यथारुचि । भङ्गानां भावना कार्या, यादिसंयोगजन्मनाम् ॥ ७८३ ॥ व्रतोच्चारप्रकाराणामप्येवं गुणने मिथः । भवन्ति भूरयो भेदाः, षड्भङ्ग्यां तानथ ब्रुवे ॥ ७८४ ॥ एकव्रते षड्भङ्गा ये, द्विविधत्रिविधादिकाः । ते षट्त्रिंशद्भवन्त्येवं, संयोगे व्रतयोर्द्धयोः ॥ ७८५ ॥ आदावाद्यव्रतस्यायो, भङ्गकोऽवस्थितोऽश्नुते । द्वितीयव्रतसत्कान् षट्, भङ्गकाननवस्थितान् ॥ ७८६ ॥ एवं भङ्गो द्वितीयोऽपि, षट् प्रत्येकं षडप्यमी । लभन्ते इति षट्त्रिंशज्जाता उच्चारभङ्गकाः ॥ ७८७ ॥ व्रतानां त्रिकयोगे तु, द्विशती षोडशोत्तरा । शतानि द्वादश चतुर्योगे षण्णवतिस्तथा ॥ ७८८ ॥ सहस्रा: सप्त सप्तैव, शताः षट्सप्ततिस्तथा । योगे व्रतानां पञ्चानां, भवन्त्युच्चारभङ्गकाः ॥ ७८९ ॥ उच्चारभङ्गका एते, व्रतानां प्राक् प्रदर्शितैः । हता एकद्धयादियोगैः, स्युः सर्वाग्रेण भङ्गकाः ॥ ७९० ॥ यथा व्रतानां पञ्चानामेकयोगैर्हि पञ्चभिः । हता उच्चारभङ्गाः षट्, स्युस्त्रिंशदेकयोगजाः ॥ ७९१ ॥ दशभिर्दिकयोगे षट्त्रिंशदुच्चारभङ्गकाः । हताः स्युस्त्रिशती षष्ट्याऽभ्यधिका सर्वसंख्यया ॥ ७९२ ॥ द्विशती षोडशाढ्या च, त्रियोगैर्दशभिर्हताः । षष्ट्याढ्यानि त्रियोगानां, स्युः शतान्येकविंशतिः ॥ ७९३ ॥ चतुर्योगैः पञ्चभिश्च, हता उच्चारभङ्गकाः । शता द्वादश पूर्वोक्ताः, षण्णवत्यधिकाश्च ये ॥७९४ ॥ स्युः शतानि चतुःषष्टिरशीत्यऽभ्यधिकानि ते । चतुर्योगजभङ्गाना, सर्वसंख्या भवेदियम् ॥ ७९५ ॥ सहस्राः सप्त सप्तैव, षट्सप्तत्यधिकाः शताः । एकेन पञ्चयोगेन, हतास्तावन्त एव ते ॥ ७९६ ॥ इयं च स्थापना प्राज्ञैस्तादृगाकारसंभवात् । शास्त्रेषु देवकुलिकाकारेति व्यपदिश्यते ॥ ७९७ ॥ पञ्चस्वणुव्रतेष्वेवं, निर्दिष्टानां यथाक्रमम् । संयोगजानां भङ्गानां, भवेत् संकलना त्वियम् ॥ ७९८ ॥ सहस्रा: षोडशाष्टौ च, शताः षडधिका अथ । उत्तरव्रतभृत्सम्यग्दृग्योगेऽष्टाधिका अपि ॥ ७९९ ॥ द्वादशानां व्रतानां च भङ्गसंकलना भवेत् । विविच्यमाना षड्भङ्ग्या, कोटीशतास्त्रयोदश ॥ ८०० ॥ कोट्यश्चतुरशीतिश्च, लक्षाणि द्वादशोपरि । सप्ताशीतिः सहस्राणि, दाभ्यां युक्तं शतद्धयम् ॥ ८०१ ॥
अत्र शतोपरितनं यवयं तदुत्तरगुणधारिकेवलसम्यक्त्वधारिरूपं भेदद्वयं ज्ञेयम् । अत्रोत्तरगुणाश्च विविधतपोऽभिग्रहरूपा इति ध्येयम् । अत्रायमाम्नायःषड्भङ्गा व्रत एकस्मिन्, ये निर्दिष्टा जिनैः श्रुते । द्वितीयव्रतयोगे ते, हन्यन्ते सप्तभिः किल ॥ ८०२ ॥ षट् क्षिप्यन्तेन चैवं स्युर्भङ्गका व्रतयोर्द्धयोः । अष्टचत्वारिंशदेव, जातास्ते विधिनाऽमुना ॥ ८०३ ॥