________________
522
तृतीयकर्मग्रंथे तु बंधस्वामित्वनिरूपणे प्रथमनरकत्रयनारको वैमानिकदेवो गर्भजमनुष्यश्च सम्यक्त्वादिगुणस्थानवर्तिनस्तीर्थकृन्नामकर्म बजन्तीत्युक्तमिति ज्ञेयं ।
अब चैवमुपपत्ति:-बद्धतीर्थकरनामा मनुष्यो मृत्वा नस्कदेवगत्योरुत्पन्नस्तत्रापि तीर्थकरनामकर्म बजाति, जिननामकर्मणः सततबन्धकालस्योत्कृष्टतस्त्रयस्त्रिंशत्सागरोपममानस्यानुत्तरसुरानाश्रित्य शतके प्रोक्तत्वात्, इति कार्मग्रन्थिकैर्गतित्रये जिननामबन्ध उक्तः,
प्रथमतस्तु मनुष्य एव तद्बन्धमारभत इत्यावश्यके 'नियमा मणुअगईए' इति निरूपितमिति ।
यद्धा नरकस्वर्गत्योः सामान्येन जिननाम्नो बन्धः स्यात्, निकाचितबन्धस्तु तस्य मनुजगतावेवेत्यावश्यके 'नियमा मणुए' इत्यायुक्तं भावीति संभाव्यते । .
एतत्संग्रहश्चैवमावश्यकषष्ठाङ्गादिषु- अरिहंत १ सिद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सुए ६ तवस्सीसु ७ । वच्छल्लया य तेसिं अभिक्खनाणोवओगे य ८ ॥ दंसण ९ विणए १० आवस्सए ११ य सीलब्बए १२ निरइयारो । खणलव १३ तव १४ च्चियाए १५ वेयावच्चे १६ समाहीय १७ ॥ अपुवनाणगहणे १८ सुअभत्ती १९ पवयणे पभावणया २० । एएहिं कारणेहिं
तित्थयस्तं लइई जीवो ॥ [प्रवचनसारोद्धार द्वार १० श्लोक ३१०, ३११, ३१२] एतत्तपोविधिसंप्रदायश्चैवंचेत्करोत्युपवासेण, विंशतिस्थानकं तपः । तदा विंशत्योपवासैरेका पक्तिः समाप्यते ॥१८॥ निरन्तरं कृत्यऽशक्तौ, सान्तरां तां करोति चेत् । पङ्क्तिरेका पूरणीया, तत्षण्मासान्तरे ध्रुवम् ॥ १९ ॥ विंशत्या पक्तिभिश्चैतत्तपो भवति पूरितम् । उपवासानां चत्वारि, शतांनीह भवन्ति तत् ॥२०॥ एवं शक्त्यनुसारेण, प्राज्ञैः षष्ठाष्टमादिभिः । मासक्षपणपर्यन्तैस्तप एतद्भिधीयते ॥ २१ ॥ पञ्चशक्रस्तवपाठोत्कृष्टा या चैत्यवन्दना । साऽवश्यं विधिना कार्या, तपस्यत्रोपवैणवम् ॥ २२ ॥ एकैकस्यामत्र पङ्क्तावेकैकेन दिनेन च । क्रमेणाराधयेद्भक्त्या, स्थानकानीति विंशतिम् ॥ २३ ॥ आये नमोऽर्हद्भ्य इति, द्विसहनी जपेद्दिने । अर्हद्भक्तिं विशेषेण, कुर्वीत स्तवनादिभिः ॥२४॥ अन्येष्वपि दिनेष्वेवमाराध्यास्ते पुरोदिताः । ज्ञानक्रियाद्यास्तु शुद्धपाठाभ्यासादरादिभिः ॥२५॥ रागद्वेषादयो दोषा, वर्जनीया विशेषतः । तपोदिने जपेन्मौनी, वक्ष्यमाणपदानि च ॥२६॥
साम्प्रतीनानि जापपदानि चैवं- अरिहंत १ सिद्ध २ पवयण ३ आयरिया ४ थेर ५ वायगा ६ साहू ७ । नाणं ८ दंसण ९ विणया १० चारितं ११ बंभवयधारी १२ ॥ किरियाणं च १३ नमो तह तवस्स १४ सिरिगोयमस्स १५ य जिणाणं १६ । चारितं १७ नाण १८ सुआ १९ तित्थं २० इअ वीस जावपया ॥ अत्र सर्वत्रापि नमो अरिहंताणं, नमो सिद्धाणं, नमो पवयणस्स,
इत्यादिपाठक्रमो ज्ञेयः । १ तहयभवोसक्कइत्ताणमिति वचनात् युक्तं निकाचनापेक्षं, तद्धन्धं नृगतावारभ्यान्यगत्योर्वजति इति यद्यपि युक्तमेव, तयोरपर्याप्तावस्थायामपि जिननामबन्धोदितेः, नैवं नरगताविति, परं न तदपेक्षा आवश्यके ।