________________
495
लब्धा मुहूर्ता ज्ञातव्या, यत्तु तत्रापि शिष्यते । ते विज्ञेया मुहूर्तस्य, विभागाः सप्तषष्टिजाः ॥ ९०५ ॥ यथा युगस्य प्रथमे, वर्षे दशसु पर्वसु । अतिक्रान्तेषु पञ्चम्यां, किं नक्षत्रं निशापतेः ? ॥ ९०६ ॥ यात्रातीतपर्वसंख्या, वर्त्तते दशलक्षणा । तस्यां पञ्चदशजायां, पञ्चाशं जायते शतम् ॥ ९०७ ॥ पञ्चम्यां पृष्टमिति च, चत्वारस्तिथयो गताः । ततश्चतुष्टयं तत्र, योजनीयं मनस्विभिः ॥ ९०८ ॥ चतुःपञ्चाशदधिकं, शतं स्याद्राशिरेष च । हीनो द्वाभ्यामवमाभ्यां, द्धिपञ्चाशं भवेच्छतम् ॥ ९०९ ॥ तस्य यशीत्या भागे यद्रुपमेकमवाप्यते । तदूर्ध्वं न्यस्यते शेषां, सप्ततिं च न्यसेदधः ॥ ९१० ॥ कृतश्चतुर्गुणो लब्धराशिरत्रैकलक्षणः । चत्वारः सप्ततिचोधिोभावेन स्थिता इह ॥ ९११ ॥ अथोपरितनाद्राशेः, स्तोकत्वादेकविंशतिः । शोद्धं न शक्यते तेनाधःस्थात्सप्ततिलक्षणात् ॥ ९१२ ॥ एकं रूपं समादाय, सप्तषष्टिगुणीकृतम् । निक्षिपेदृर्ध्वगे राशौ, तज्जाता सैकसप्ततिः ॥ ९१३ ॥ एकोनसप्ततिश्चाधस्तिष्ठेद्राशेरथोर्ध्वगात् । शोधितायामभिजितः, सत्कायामेकविंशतौ ॥ ९१४ ॥ पञ्चाशच्छिष्यतेऽधःस्था-द्राशेश्च सप्तविंशतौ । शोधितायां भचक्रस्य, द्विचत्वारिंशदास्थिता ॥ ९१५ ॥ शोध्यते चोर्ध्वगाद्राशेः, पुनरप्येकविंशतिः । राशेरधस्तनात्सप्तविंशतिर्भगणस्य च ॥ ९१६ ॥ एकोनत्रिंशदूर्ध्वं स्यादधः पञ्चदश स्थिताः । एकविंशतिरूद्मस्थाद्राशेर्भूयोऽपि शोध्यते ॥ ९१७ ॥ अष्टौ ततोऽवशिष्यन्ते, राशावूर्ध्वं व्यवस्थिते । तेषां च पुरतो वक्ष्येऽवशिष्टां परिकर्मणाम् ॥ ९१८ ॥ राशेरधस्ताच्छक्यन्ते, शोद्धं पञ्चदशात्मकात् । न सप्तविंशतिविंशतिर्नाष्टादशापि न ॥ ९१९ ॥ त्रयोदश तु शक्यन्ते, शोद्धं तेषां च शोधने । श्रुत्याद्यादित्यान्तभानि, शुद्धानि स्युस्त्रयोदश ॥ ९२० ॥ शेषाच्च द्वितयात्रिंशद्गुणात्पुष्यो विशोध्यते । मुहूत्तैस्त्रिंशता पञ्चदशभिस्सार्द्धमेव च ॥ ९२१ ॥ ये पञ्चदश शिष्यन्ते, मघानां ते मुहूर्त्तकाः । अथो राशौ सन्त्यष्टौ तेषु त्रिंशद्गुणेषु च ॥ ९२२ ॥ चत्वारिंशा द्विशतीस्यात्, सप्तषष्ट्या हरेच्च ताम् । लब्धास्त्रयो मुहूर्तास्तान्, क्षिपेद्राशावधस्तने ॥ ९२३ ॥ अष्टादश मुहूर्ताः स्युस्तद्भागाः सप्तषष्टिजा: । एकोनचत्वारिंशच्च, तदेष प्रश्ननिर्णय: ॥ ९२४ ॥ अष्टादशसु भुक्तेषु, मुहूर्तेष्वमृतांशुना । मघानामधिकैकोनचत्वारिंशल्लवेष्विह ॥ ९२५ ॥ युगस्य प्रथमे वर्षे, दशपर्वव्यतिक्रमे । उदेति सूर्यः पञ्चम्यामहोरात्रेऽपि तावति ॥ ९२६ ॥ अहोरात्रे युगस्याये, प्रतिपत्संज्ञके तिथौ । चन्द्रसंबन्धि नक्षत्रं, किमत्र ? प्रतिपाद्यते ॥ ९२७ ॥ चतुर्विंशं शतं संख्या, पाश्चात्ययुगपर्वणाम् । अष्टादशशती षष्टियुक् स्यात्पञ्चदशाहता ॥ ९२८ ॥ त्रिंशतोऽवमरात्राणामेतस्याः पातने भवेत् । अष्टादशशती त्रिंशा, सा दयशीत्या विभज्यते ॥ ९२९ ॥ लब्धां द्वाविंशतिं न्यस्योपरि कुर्याच्चतुर्गुणाम् । अष्टाशीतिर्भवेच्छेषामधः षड्विंशतिं न्यसेत् ॥ ९३० ॥ राशेरष्टाशीतिरूपादेकविंशतिशोधने । संजाताऽभिजित: शुद्धिः, सप्तषष्टिस्तु शिष्यते ॥ ९३१ ॥