________________
31
समचतुरस्रं न्यग्रोधसादिवामनककुब्जहुण्डनि । संस्थानान्यङ्गे स्युः, प्राक्कर्मविपाकतोऽसुमताम् ॥ १९३ ॥ तत्र चाद्यं चतुरस्रं, संस्थानं सर्वतः शुभम् । न्यग्रोधमूर्ध्वं नाभे: सत्, सादि नाभेरधः शुभम् ।। १९४ ।। इदं साचीति केऽप्याहुः, साचीति शाल्मलीतरुः । मूले स्याद् वृत्तपुष्टोऽसौ, न च शाखासु तादृशः ॥। १९५ ।। तथोक्तं पञ्चसंग्रहवृत्तौ — अपरे तु साचीति पठन्ति तत्र साचीति प्रवचनवेदिनः शाल्मलीतरुमाचक्षते । ततः साचीव यत्संस्थानं तत्साचीति । एवं च न्यग्रोधसाचिनोरन्वितार्थता भवतीति ज्ञेयम् ।
मौलिग्रीवापाणिपादे, कमनीयं च वामनम् । लक्षितं लक्षणैर्दुष्टैः शेषेष्ववयवेषु च । १९६ ॥ रम्यं शेषप्रतीकेषु, कुब्जं संस्थानमिष्यते । दुष्टं किन्तु शिरोग्रीवापाणिपादे भवेदिदम् ॥ १९७ ॥ हुंडं तु सर्वतो दुष्टं, केचिद्वामनकुब्जयोः । विपर्यासमामनन्ति, लक्षणे कृतलक्षणाः ।। १९८ ॥ इति संस्थानस्वरूपम् ॥ १० ॥
अङ्गमानं तु तुङ्गत्वमानमङ्गस्य देहिनाम् । स्थूलतापृथुताद्यं तु ज्ञेयमौचित्यतः स्वयम् ।। १९९ ।। इत्यङ्गमानस्वरूपम् ॥ ११ ॥
समित्येकीभावयोगाद्वेदनादिभिरात्मनः । उत्प्राबल्येन कर्मांशघातो यः स तथोच्यते ॥ २०० ॥ यतः–समुद्घातगतो जीवः, प्रसह्य कर्मपुद्गलान् । कालान्तरानुभवानपि क्षपयति द्रुतम् ॥। २०१ ॥ तच्चैवम् ।
कालान्तरवेद्यानयमाकृष्योदीरणेन कर्मांशान् । उदयावलिकायां च प्रवेश्य परिभुज्य शातयति ॥ २०२ ॥ ते चैवम् ।
वेदनोत्थः कषायोत्थो, मारणान्तिकवैक्रियौ । आहारकस्तैजसश्च, छद्मस्थानां षडप्यमी ॥ २०३ ॥ स्यात्केवलिसमुद्घातः, सप्तमः सर्ववेदिनाम् । अष्टसामयिकश्चायमान्तर्मुहूर्त्तिकाः परे ॥ २०४ ॥ तथा हि
करालितो वेदनाभिरात्मा स्वीयप्रदेशकान् । विक्षिप्यानन्तकर्माणुवेष्टितान् देहतो बहिः ॥ २०५ ॥ आपूर्यांसाद्यन्तराणि मुखादिशुषिराणि च । विस्तारायामतः क्षेत्रं, व्याप्य देहप्रमाणकम् ॥ २०६ ॥ तिष्ठेदन्तर्मुहूर्तं च तत्र चान्तर्मुहूर्त्तके । असातवेदनीयांशान्, शातयत्येष भूरिशः ॥ २०७ ॥ इति वेदनासमुद्घातः ।
समाकुलः कषायेण, जीवः स्वीयप्रदेशकैः । मुखादिरंध्राण्यापूर्य, तान् विक्षिप्य च पूर्ववत् ॥ २०८ ॥ विस्तारायामतः क्षेत्रं, व्याप्य देहप्रमाणकम् । कषायमोहनीयाख्यकर्मांशान् शातयेद्बहून् ॥ २०९ ॥ शातयंश्चापरान् भूरीन्, समादत्ते स्वहेतुभिः । ज्ञेयं सर्वत्र नैवं चेदस्मात् मुक्ति: प्रसज्यते ॥ २१० ॥