________________
1२५
द्वितीयप्रतरे पञ्चदश सार्द्धानि तान्यः । तृतीय च सपादानि, षोडशैतानि निश्चितम् ॥ ३४२ ॥ चतुर्थे च सप्तदश, वार्द्धयः परमा स्थितिः । सर्वेष्वपि जघन्या तु, चतुर्दश पयोधयः ॥ ३४३ ॥ कराः पञ्च देहमत्र, चतुर्दशाब्धिजीविनाम् । कराश्चत्वारस्त्रयोऽशाः, पञ्चदशार्णवायुषाम् ॥ ३४४ ॥ षोडशाब्यायुषां हस्ताश्चत्वारोऽशद्धयान्विताः । एकांशाढ्यास्ते तु सप्तदशसागरजीविनाम् ॥ ३४५ ॥ एकादशविभक्तैककरस्यांशा अमी इह । आहारोच्छ्वासकालस्तु, प्राग्वत्सागरसंख्यया ॥ ३४६ ॥ कामभोगाभिलाषे तु, तेषां संकेतिता इव । सौधर्मस्वर्गदेव्योऽत्रायान्ति स्वार्हा विचिन्तिताः ॥ ३४७ ॥ अथासां दिव्यसुदृशां, श्रृङ्गाररसकोमलम् । गीतं स्फीतं च साकूतं, स्मितं ललितकूर्जितम् ॥ ३४८ ॥ विविधान्योक्तिवक्रोक्तिव्यङ्ग्यवल्गुवचोभरम् । हृद्यगद्यपद्यनव्यभव्यकाव्यादिपद्धतिम् ॥ ३४९ ॥ कङ्कणानां रणत्कारं, हारकाञ्चीकलध्वनिम् । मणिमञ्जीरझंकारं, किडिणीनिष्क्वणोल्वणम् ॥ ३५० ॥ कामग्रहार्तिशमनमन्त्राक्षरमिवाद्भुतम् । शब्द श्रृण्वन्त एवामी, तृप्यन्ति सुरतादिव ॥ ३५१ ॥ देव्योऽपि ता दूरतोऽपि, वैक्रियैः शुक्रपुद्गलैः । तृप्यन्त्यङ्गे परिणतैस्तादृग्दिव्यप्रभावतः ॥ ३५२ ॥ अर्द्धनाराचावसानचतुःसंहननाञ्चिताः । गर्भजा नरतिर्यञ्चो, लभन्तेऽत्रामृताशिताम् ॥ ३५३ ॥ अस्माच्च्युत्वा नृतिरचोरेव यान्ति सुधाभुजः । च्यवमानोत्पद्यमानसंख्या त्वत्रापि पूर्ववत् ॥ ३५४ ॥ अत्रोत्पत्तिच्यवनयोर्विरहः परमो भवेत् । अशीतिं दिवसानेकं, समयं च जघन्यतः ॥ ३५५ ॥ पश्यन्ति देवा अत्रत्या, अवधिज्ञानचक्षुषा । पङ्कप्रभायास्तुर्यायाः, पृथ्या अधस्तलावधि ॥ ३५६ ॥ अत्रत्यानां च देवानां, दिव्यां देहद्युतिं ननु । सोढुं शक्नोति सौधर्माधिपोऽपि न सुरेश्वरः ॥ ३५७ ॥ श्रूयते हि पुरा गङ्गदत्तमत्रत्यनिर्जरम् । आगच्छन्तं परिज्ञाय, नन्तुं वीरजिनेश्वरम् ॥ ३५८ ॥ पूर्वागतो वज्रपाणिस्तत्तेजः क्षन्तुमक्षमः । प्रश्नानापृच्छ्य संक्षेपात् संभ्रान्तः प्रणमन् ययौ ॥ ३५९ ॥ एतच्चार्थतो भगवतीसूत्रे षोडशशतकपञ्चमोद्देशके ॥ चतुर्थे प्रतरेऽत्रापि, महाशुक्रावतंसकः । सौधर्मवदशोकाद्यवतंसकचतुष्कयुक् ॥ ३६० ॥ उत्पद्यते चात्र महाशुक्रनामा सुरेश्वरः । प्राग्वत्कृत्वाऽर्हदाद्यर्चामलकुर्यान्महासनम् ॥ ३६१ ॥ एकदेवसहस्रण, सेव्योऽभ्यन्तरपर्षदाम् । पञ्चपल्याधिकापार्द्धषोडशाम्भोधिजीविनाम् ॥ ३६२ ॥ सहसद्धितयेनैष, सेवितो मध्यपर्षदाम् । चतुःपल्याधिकसार्द्धपञ्चदशार्णवायुषाम् ॥ ३६३ ॥ चतुःसहस्त्या देवानां, सेवितो बाह्यपर्षदाम् । त्रिपल्योपमयुक्सार्द्धपञ्चदशार्णवायुषाम् ॥ ३६४ ॥ सामानिकानां चत्वारिंशता सेव्यः सहस्रकैः । चतुर्दिशं च प्रत्येकं, तावद्भिरङ्गरक्षकैः ॥ ३६५ ॥ त्रायस्त्रिशैलॊकपालैरनीकानीकनायकैः । अन्यैरपि महाशुक्रवासिभिः सेवित: सुरैः ॥ ३६६ ॥ जम्बूद्धीपान् पूरयितुं, क्षमः षोडश सर्वतः । रूपैर्विकुर्वितैस्तिर्यगसंख्यद्धीपतोयधीन् ॥ ३६७ ॥