________________
395
३४० ॥
यद्वा पूर्वभवेऽभ्यस्तं, सप्रमार्जनमर्चनम् । जिनार्चानां ततोऽभ्यासादत्राप्येवं सृजन्त्यमी ॥ ३३६ ॥ गोशीर्षचन्दनेनाथ, प्रत्यङ्गं पूजयन्ति ताः । प्रत्येकमासां परिधापयन्ति वस्त्रयोर्युगम् ॥ ३३७ ॥ पुष्पमाल्यैर्गन्धचूर्णैर्वस्त्रैराभरणैरपि । पूजयित्वा लम्बयन्ति, पुष्पदामान्यनेकशः ॥ ३३८ ॥ ततः करतलक्षिप्तैः, पञ्चवर्णैर्मणीवकैः । चित्रोपचाररुचिरं रचयन्ति भुवस्तलम् ॥ ३३९ ॥ पुरतोऽथ जिनार्चानामच्छै रजततण्डुलैः । लिखिवा मङ्गलान्यष्टौ, पूजयन्ति जगद्गुरून् ॥ ततश्चान्द्रप्रभं वज्रवैडूर्यदण्डमण्डितम् । करे कृत्वा मणिस्वर्णचित्रं धूपकडुच्छकम् ॥ ३४१ ॥ दह्यमानकुन्दुरुष्ककृष्णागुरुतुरुष्ककैः । धूपं दत्त्वा जिनेन्द्राणां प्रक्रमन्ते स्तुतिक्रियाम् ॥ ३४२ ॥ धूपं दत्त्वा जिनेन्द्राणामित्युक्तं यदिहागमे । साक्षाज्जिनप्रतिमयोस्तदभेदविवक्षया ॥ ३४३ ॥ सत्यप्येवं न मन्यन्ते, येऽर्चामर्थ्यां जगत्पतेः । तान् धावतो मुद्रिताक्षानानयामः कथं पथम् ? ॥ ३४४ ॥ नमस्ते समस्तप्रशस्तर्द्धिधाम्ने, क्रमाश्लेषिनम्रेन्द्रकोटीरदाने । भवापारपाथोधिपारप्रदाय, प्रदायाङ्गिनां संपदां निर्मदाय || ३४५ ॥
इत्याद्यष्टोत्तरशतं, श्लोकानस्तोकधीधनाः । कुर्वन्त्यदोषान् प्रौढार्थकलितान् ललितान् पदैः ॥ ३४६ ॥ नमस्कारैः सुधासारसारैः स्तुत्वा जिनानिति । शक्रस्तवादिकां चैत्यवन्दनां रचयन्त्यमी ॥ ३४७ ॥ वन्दित्वाऽथ नमस्कृत्य, ततः पुनरपि प्रभून् । चैत्यस्यास्य मध्यदेशं, प्रमृज्याभ्युक्ष्य चाम्बुभिः ॥ ३४८ ॥ धृताकल्पं कल्पयन्तश्चारुचन्दनहस्तकैः । पुष्पपुञ्जोपचारेण, धूपैश्चाभ्यर्चयन्त्यमी ॥ ३४९ ॥ चैत्यस्याथ दाक्षिणात्यं, द्वारमेत्यात्र संस्थिताः । द्वारशाखापुत्रिकाश्च, व्यालरूपाणि पूर्ववत् ॥ ३५० ॥ प्रमार्जनाभ्युक्षणाभ्यां पुष्पमाल्यविभूषणैः । सग्दामभिश्चार्चयन्ति, धूपधूमान् किरन्ति च ॥ ३५१ ॥ ततश्च दक्षिणद्वारस्योपत्ये मुखमण्डपम् । प्राग्वत्तस्य मध्यदेशे कुर्वन्ति हस्तकादिकम् ॥ ३५२ ।। ततश्चास्य मण्डपस्य, पूर्वद्वारेऽपि पूर्ववत् । द्वारशाखाद्यर्चयन्ति, स्तम्भांश्च दक्षिणोत्तरान् ॥ ३५३ ॥ शेषद्वारद्वयेऽप्येवं, ततः प्रेक्षणमण्डपे । मध्यं द्वास्त्रयं सिंहासनं समणिपीठिकम् ॥ ३५४ ॥ निर्गत्य दक्षिणद्धारात्ततः प्रेक्षणमण्डपात् । दाक्षिणात्यं महाचैत्यस्तूपमभ्यर्चयन्ति ते ॥ ३५५॥ तस्माच्चतुर्दिशं यास्तु, प्रतिमाः श्रीमदर्हताम् । तासामालोके प्रणामं कुर्वन्ति पश्चिमादितः ॥ ३५६ ॥ ताः पूर्ववत्प्रपूज्याष्टौ, मङ्गलानि प्रकल्प्य च । साष्टोत्तरशतश्लोकां, कुर्वति चैत्यवन्दनाम् ॥ ३५७ ॥
१. बहुशस्तत्र प्रमार्जनं, विलम्ब्य चान्तरान्तरा, ततो नायं सम्यग्धेतुः सर्वेषां प्राग्भवे जिनमूर्तिपूजासंभवाभावाच्च, कल्पः स पूजाया इत्येव यथार्थम् ।
२. तत्र कच्छादिवस्त्रचिह्नाभावात् युक्तमिदं, अधुना तु प्रतिमानामेव तथाविधानात् न वस्त्रपरिधापनम् ।