________________
362
तथोक्तं जीवाभिगमे—'दस जोअणसहस्साई विखण'
श्रीसमवायाले तु–“सब्बे वि. णं दधिमुहपब्वया पल्लगसंठाणसंठिया सब्वत्थ समा विक्खंभुस्सेहेणं चउसटुिं जोअणसहस्साइं पण्णत्ता” इत्युक्तमिति ज्ञेयं ॥ पुण्करिण्यः समस्तास्तास्तेनैकैकेन भूभृता । विभान्ति प्रौढमहिला, इव क्रोडीकृतार्भकाः ॥ १६३ ॥ चतुर्णामञ्जनाद्रीणां, घनाघनघनत्विषाम् । षोडशानां दधिमुखगिरीणामुपरि स्फुरत् ॥ १६४ ॥ जिनायतनमेकैकमेवं स्युः सर्वसङ्ख्यया । तृतीयाङ्गादिसिद्धान्तेषूक्तान्येतानि विंशतिः ॥ १६५ ॥ जीवाभिगमवृत्त्यादिग्रन्थेषु च निरूपितौ । वापीचतुष्कान्तरेषु, द्रौ द्वौ रतिकराचलौ ॥ १६६ ॥ षोडशानां वापिकानां, षोडशस्वन्तरेष्वमी । द्वात्रिंशद् दिदिभावेन, पद्मरागनिभाः समे ॥ १६७ ॥
इति प्रवचनसारोद्धारसूत्रवृत्त्यभिप्रायेण एते पद्मरागमयाः, स्थानाङ्गवृत्यभिप्रायेण तु
सौवर्णा इति। उपयुकैकमेतेषां, सर्वेषामपि भूभृताम् । चैत्यं नित्यार्हतां चारु, चलाचलध्वजाञ्चलम् ॥ १६८ ॥ चत्वारो दधिमुखस्था, एकैकोञ्जनभूभृतः । अष्टानां च रतिकराद्रीणामष्टौ जिनालयाः ॥ १६९ ॥ इत्येवमेकैकदिशि, त्रयोदश त्रयोदश । एवं संकलिताश्चैते, द्विपञ्चाशज्जिनालयाः ॥ १७० ॥
स्थानाङ्गवृत्तावप्युक्तं- “सोलस दहिमुहसेला, कुंदामलसंखचंदसंकासा । कणयनिभा बत्तीसं, रहकरगिरिबाहिरा तेसिं ॥ अंजणगाइगिरीणं, नाणामणिपज्जलंतसिहरेसु । बावन्नं जिणणिलया,
मणिरयणसहस्सकूडवरा" ॥ प्रासादास्ते योजनानां, भवन्ति शतमायताः । पञ्चाशतं ततास्तुङ्गा, योजनानि द्विसप्ततिम् ॥ १७१ ॥ हावभावायभिनयविलासोल्लासिपुत्रिका: । दिदृक्षानिश्चलैर्दिव्याङ्गनावृन्दैरिवाञ्चिताः ॥ १७२ ॥ चित्रोत्कीर्णैर्हयगजसुरदानवमानवैः । अद्भुतालोकनरसस्थितत्रिभुवना इव ॥१७३ ॥ अष्टभिर्मङ्गलैः स्पष्टं, विशिष्टा अपि देहिनाम् । सेवाजुषां वितन्वानाः, कोटिशो मङ्गलावलीः ॥ १७४ ॥ प्रीत्योन्नतपदप्राप्तेर्नृत्यद्भिरिव केतुभिः । त्वरितं प्रोल्लसद्भक्तीनाह्वयन्त इवाङ्गिनः ॥१७५ ॥ स्थिताः सिंहनिषदनाकाराः स्फारामलत्विषः । भव्याघघोरमातङ्गघटामिव जिघांसवः ॥ १७६ ॥ तथाहुः- “अंजणगपब्बयाणं सिहरतलेसुं हवंति पत्तेयं । अरिहंताययणाई सीहणिसायाइं तुंगाई" ॥ द्वारैश्चतुर्भिः प्रत्येकं, ते विभान्ति सुकान्तिभिः । चतुर्गतित्रस्तलोकत्राणदुर्गा इवोद्भटाः ॥ १७७ ॥ प्राच्यां देवाभिधं द्वारं, तद्भवेद्देवदैवतम् । असुराख्यं दक्षिणस्यां, द्वारं चासुरदैवतम् ॥ १७८ ॥ १. सर्वत्र समा विष्कम्भेन उत्सेधेन चतुषष्टिः सहमाणि इत्येवं व्याख्याने न विरोधः, अविभक्तिकनिर्देशो विष्कम्भशब्दस्यात्र, न चात्र 'विक्खंभुस्सेहेहिंति बहुवचनमत्ति येनागतिकता स्यात् । २. सुष्टुवर्णमया इत्यर्थकत्वे न विरोधः, यदा पद्मरागो रक्त: सुवर्णं च स्क्तमपि स्यात् ।