________________
343
गङ्गासिन्धुप्रपाताख्ये, कुण्डे विष्कम्भतो मते । चत्वारिंशत्समधिकं, योजनानां शतद्वयम् ॥ ७६ ॥ तदन्तर्वर्त्तिनौ द्वीपौ, प्रज्ञप्तौ विस्तृतायतौ । द्वात्रिंशद्योजनी मूलप्रवाह इव जिह्विके ॥ ७७ ॥ गङ्गासिन्धुरक्तवतीरक्तास्वेतन्निरुपणम् । षट्त्रिंशशतसङ्ख्यासु, सर्वमप्यविशेषितम् ॥ ७८ ॥ रोहितांशा योजनानि पञ्चाशन्नदनिर्गमे । विस्तीर्णेकयोजनं चोद्धिद्धोदीच्यां नगोपरि ॥ ७९ ॥ एकादश योजनानां शतान् पञ्चसमन्वितान् । अंशान् द्वाविंशतिं गत्वा कुण्डं प्राप्याथ पूर्ववत् ॥ ८० ॥ क्षेत्रं हैमवतं द्वेधा, स्वप्रवाहेण कुर्वती । कालोदं याति पूर्वार्द्ध, परार्द्ध मानुषोत्तरम् ॥ ८१ ॥ अस्याः कुण्डं योजनानामशीत्याढ्या चतुःशती । विष्कम्भायामतो मूलप्रवाहवच्च जिह्निका ॥ ८२ ॥ अस्याः कुण्डान्तर्गतश्च, द्वीपो भवति यः स तु । चतुः षष्टिर्योजनानि, विष्कम्भायामतो मतः ॥ ८३ ॥ रुप्यकूले स्वर्णकूले, रोहिते रोहितांशिके । अष्टाप्येतास्तुल्यरुपाः, स्वरुपपरिवारतः ॥ ८४ ॥ अथोत्तरं हिमवतः, क्षेत्रं हैमवतं स्थितम् । वृत्तवैताढ्येन शब्दापातिनाऽलङ्कृतान्तरम् ॥ ८५ ॥ मुखे लक्षं योजनानां षट्षष्टिं च सहस्रकान् । एकोनविंशां त्रिशर्ती, षट्पञ्चाशल्लवांस्ततम् ॥ ८६ ॥ लक्षद्धयं योजनानां, सहस्राणि चतुर्दश । एकपञ्चाशानि ततं, मध्येऽंशान् षष्टियुक् शतम् ॥ ८७ ॥ अन्ते शतान् सचुतरशीतीन् सप्त सहस्रकान् । एकषष्टिं द्विलक्षी च, द्वापञ्चाशल्लवांस्ततम् ॥ ८८ ॥ जम्बूद्वीपस्थायिवृत्तवैताढ्यैः सदृशा यथा । घातकीखण्डस्थवृत्तवैताढ्याः सर्वथा तथा ॥ ८९ ॥ अत्रापि वृत्ता वैताढ्या:, पूर्वोक्तैः सदृशाः समे । शब्दापातिप्रभृतयः, प्रत्येतव्या मनस्विभिः ।। ९० ।। द्वाभ्यां चतुर्भिरष्टाभिर्योजनैरन्तरं क्रमात् । स्वापगाभ्यां शब्दगन्धापातिमेरुमहीभृताम् ॥ ९१ ॥ विकटापातिनोर्माल्यवतोस्तथान्तरं क्रमात् । स्वस्वक्षेत्रापगाभ्यां द्वे, योजने तच्चतुष्टयम् ॥ ९२ ॥ अस्योत्तरस्यां च महाहिमवान् वर्त्तते गिरिः । लक्षाण्यष्टायतो मौलौ, महापद्महृदाङ्कितः ॥ ९३ ॥ योजनानां सहस्राणि, षोडशाष्टौ शतानि च । द्विचत्वारिंशदाढ्यानि, कलाश्चाष्टैष विस्तृतः ॥ ९४ ॥ महापद्महूदस्त्वष्टौ, सहस्राण्यायतो भवेत् । योजनानां सहस्राणि चत्वारि चैष विस्तृतः ॥ ९५ ॥ दक्षिणस्यामुदीच्यां च नद्यौ द्वे निर्गते इतः । रोहिता हरिकान्ता च ते उभे पर्वतोपरि ।। ९६ ।। चतुःषष्टिं शतान्येकविंशान्यंशचतुष्टयम् । अतीत्य स्वस्वकुण्डान्तर्निपत्य निर्गते ततः ॥ ९७ ॥ पूर्वार्द्धाद् हैमवतगा, नराद्रिं याति रोहिता । अपरार्द्धात्तु सा याति, कालोदनामवारिधिम् ॥ ९८ ॥ हरिकान्ता पुनर्याति, कालोदं हरिवर्षगा । पूर्वार्द्धादपरार्द्धात्तु, याति सा मानुषोत्तरम् ॥ ९९ ॥ नद्योर्हरिसलिलयोर्हरिकान्ताख्ययोरपि । तयोर्नारीकान्तयोश्च तथैव नरकान्तयोः ॥ १०० ॥ इत्यष्टानामापगानां, विष्कम्भो हूदनिर्गमे । भवेच्छतं योजनानामुण्डत्वं योजनद्वयम् ॥ १०१ ॥ पर्यन्ते च योजनानां सहस्रमिह विस्तृतिः । उण्डत्वं च योजनानां विंशतिः परिकीर्त्तितम् ॥ १०२ ॥