________________
325
एवं चत्वारोऽत्र सूर्याश्चत्वारश्च सुधांशवः । नक्षत्राणां शतमेकं, प्रज्ञप्तं द्वादशोत्तरम् ॥ २५९ ॥ द्विपञ्चाशत्समधिकं, ग्रहाणां च शतत्रयम् । प्रमाणमथ ताराणां, यथाऽऽम्नायं निरूप्यते ॥ २६० ॥ ढे लक्षे सप्तषष्टिश्च, सहस्राणि शतानि च । नवैव कोटाकोटीनां, प्रोक्तानि तत्त्ववेदिभिः ॥ २६१ ॥ अत्रायमाम्नाय:यत्र द्वीपे समुद्रे वा, प्रमाणं ज्ञातुमिष्यते । ग्रहनक्षत्रताराणां, तत्रत्यचन्द्रसङ्ख्यया ॥ २६२ ॥ एकस्य राशिनो गुण्यो, वक्ष्यमाणः परिच्छदः । एवं ग्रहोडुताराणां, मानं सर्वत्र लभ्यते ॥ २६३ ॥ एकशशिपरिवारश्वायम्अष्टाशीतिर्ग्रहा ऋक्षाण्यष्टाविंशतिरेव च । शराश्वाइरसरसास्ताराणां कोटिकोटयः ॥ २६४ ॥ लवणाब्धौ च कालोदे, स्वयम्भूरमणेऽपि च । भूयस्यो मत्स्यमकरकूर्माद्या मत्स्यजातयः ॥ २६५ ॥ तत्रास्मिल्लवणाम्भोधावुत्सेधाङ्गुलमानतः । योजनानां पञ्च शतान्युत्कृष्टमत्स्यभूघनम् ॥ २६६ ॥ शतानि सप्त कालोदे, सहस्रमंतिमेऽम्बुधौ । गुर्वङ्गमानं मत्स्यानामल्पमत्स्या: परेऽब्धयः ॥ २६७ ॥ स्युयोनिप्रभवा जातिप्रधाना: कुलकोटयः । लवणे सप्त मत्स्यानां, नव कालोदवारिधौ ॥ २६८ ॥ अर्द्धत्रयोदश तथा, मत्स्यानां कुलकोटयः । स्वयम्भूरमणाम्भोधौ, प्रज्ञप्ताः परमेष्ठिभिः ॥ २६९ ॥
तथा च जीवाभिगमे-'लवणे णं भंते ! समुद्दे कइ मच्छजातिकुलकोडिजोणी पमुहसयसहस्सा,
पण्णत्ता ?, गो० ! लवणे सत्त, कालोए नव, सयंभूरमणे अद्धतेरसत्ति.' जम्बूद्वीपे प्रविशन्ति, मत्स्या लवणतोयधेः । नवयोजनप्रमाणा, जगतीविवराध्वना ॥ २७० ॥
एवं च- क्वचिदयमुदधिः सुधांशुचन्द्रातपघनसारसमुज्ज्वलश्चकास्ति । गतशिखशिरस: शिखाभिरामो, रहसि हसन्निव वारिधीनशेषान् ॥ २७१ ॥
___ क्वचिदुदयदमन्दभानुतेजो, धुसूणरसप्रसरारुणान्तरालः । प्रकटमिव वहन्नदीषु रागं, हृदि रसतः पतितासु वल्लभासु ॥ २७२ ॥
क्वचिदनणुगुणैर्विभाति मुक्तामणिभिरुडुप्रतिबिम्बितैरिवान्तः । अविरतगतिखिन्नभानुमुक्तैः, वचन करप्रकरैरिव प्रवालैः ॥ २७३ ॥
वचन जलगजैर्नियुद्धसज्जैरसकृदुदस्तकरोद्धरैः करालः । जगदुपकृतिकारिनीरपानोपनतघनेषु धृतप्रतीभशङ्कः ॥ २७४ ॥
स्थलचरसमसर्वजातिसत्त्वाकृतिमदनेकझषौघपूर्णमध्यः ।
प्रलयतरलितं जगद्दधानो, हरिरिव कुक्षिनिकेतने कृपाः ॥ २७५ ॥ (प्रमुदितवंदना प्रभाश्च) क्वचिदिह कमलाया: कौतुकादारमंत्या, जलचरनरकन्यालीषु हल्लीसकेन ।
अयमुपनयतीवापत्यरागैकगृह्यः, पवनजवनवेलागर्जिवाद्यं विनोदात् ॥ २७६ ॥