SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 292 पञ्चाशीतियोजनानि, नवभागाश्च षष्टिजा: । षष्ट्यंशस्यैकस्य भागाः, षष्टिस्तथैकषष्टिजा: ॥ २४६ ॥ सर्वान्त्यमण्डलादर्वाचीनद्वितीयमण्डले । एषा वृद्धिस्ततो वृद्धौ, पुरतो ध्रुवकोऽप्यसौ ॥ २४७ ।। सर्वबाह्यात्तृतीयादिमण्डलेष्वथ दृक्पथम् । ज्ञातुं गुणितया षट्त्रिंशतैकद्धयादिसंख्यया ॥ २४८ ॥ ध्रुवांके न्यूनितेऽसौ स्यात्, क्षेप्यराशिरनेन च । प्राच्यमण्डलदृग्मार्गा, युक्तः स्यादिष्टमण्डले ॥ २४९ ॥ तथाहि, तृतीये मण्डले बाह्यात्, षट्त्रिंशदेकताडिता । ध्रुवकात्तदवस्थैव, विशोध्यते ततः स्थितम् ॥ २५० ॥ पञ्चाशीति: योजनानि, षष्टिजाश्च लवा नव । षट्यंशस्यैकस्य लवाश्चतुर्विंशतिरेव च ॥ २५१ ॥ द्वितीयमण्डलस्याक्षिगोचरोऽनेन संयुते । तृतीयमण्डले दृष्टिपथमानं भवेदिदम् ॥२५२ ॥ योजनानां सहस्राः स्युः, द्वात्रिंशत्सैकयोजनाः । भागा: एकोनपञ्चाशयोजनस्य च षष्टिजाः ॥ २५३ ॥ एकषष्टिविभक्तस्यैकस्य षष्टिलवस्य च । त्रयोविंशतिरेवांशा, एवं सर्वत्र भावना ॥ २५४ ॥ एवमन्तः प्रविशतः, सूर्यस्य बाह्यमण्डलात् । पूर्वोक्तरीत्या दृग्मार्गप्रमाणे वद्रिते रखेः ॥ २५५ ॥ पञ्चाशीतिः सातिरेका, संपूर्णा सैव कुत्रचित् । साधिका चतुरशीतिः, क्वापि सा केवला क्वचित् ॥ २५६ ॥ त्र्यशीतिः साधिका क्वापि, योजनानां यथायथम् । सर्वान्तर्मण्डलं यावद्, भाव्यं तच्च प्रदर्शितम् ॥ २५७ ॥ यद्यपि बाह्यतृतीयमण्डलात् दयशीत्यधिकशततमे सर्वाभ्यन्तरमण्डले यथोक्तकरणेन त्र्यशीतियोजनानि द्वाविंशतिः षष्टिभागा योजनस्यैकस्य षष्टिभागस्य सत्काः पञ्चत्रिंशदेकषष्टिभागाः ८६ २२/६० + १/६० ३५/६१) एवंरूपः क्षेप्यराशिर्भवति तथापि येऽत्र ध्रुवकात् षट्त्रिंशत् यथोक्तरूपा: शोधिता: ते कलया न्यूना अपि पूर्णा एव विवक्षितास्तत: किञ्चिदधिकं निर्गतम् तच्चाधिकं सर्वाभ्यन्तरमण्डले एकत्र पिण्डितं सदष्टषष्टिरेकषष्टिभागा भवन्ति । ततस्ते भूयः क्षेप्यराशौ क्षिप्यन्ते तत जातः क्षेप्यराशिः ८६ २३/६० + (१/६० ४२/६१) । अस्मिंश्च राशौ सर्वाभ्यन्तरानन्तरद्वितीयमण्डलगतदृक्पथपरिमाणे योजिते सति यथोक्तं सर्वाभ्यन्तरमण्डले दृक्पथपरिमाणं भवतीति ज्ञेयम् ॥ कथं चैव योजनानां, सहस्रैः दूरगावपि । आसन्नाविव दृश्येते, तरणी उदयोस्तयोः? ॥ २५८ ॥ मध्याह्न तु योजनानामष्टशत्यां स्थितावपि । दूरस्थाविव दृश्येते, कथमुष्णत्विषौ ननु ॥ २५९ ॥ अत्रोच्यते, दूरत्वेन प्रतिघातात्, स्वबिम्बमहसां रवी । आसन्नौ सुखदृश्यत्वात्, ज्ञायते उदयोस्तयोः ॥ २६० ॥ मध्याह्न चासन्नतया, प्रसर्पत्तीव्ररश्मिभिः । ज्ञायते दुर्निरीक्ष्यत्वादासन्नावपि दूरगौ ॥ २६१ ॥ तथा चागमः लेस्सापडिघाएणं उग्गमणमुहुत्तंसि दूरे अ मूले अ दीसंति ॥ लेसाहितावेणं मज्झंति अमुहुत्तंसि मूले अ दूरे अ दीसंति, लेसापडिघाएणं अत्थमण मुहुत्तं दूरे अ मूले अ दीसंति । अत्र दूरे चेति दृष्ट्रस्थानापेक्षया, विप्रकृष्टे मूले चेति दृष्ट्रप्रतीत्यपेक्षया आसन्ने इति भगवतीसूत्रशतक ८ उद्देश ८ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy