SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ 241 सुखावहो गिरिस्तस्य, मर्यादाकारको भवेत् । ततः परं च नलिनावतीति विजयो मतः ॥५१॥ नमस्यते सुकृतिभिः, सांप्रतं बाहुतीर्थकृत् । विजये विहरन्नस्मिन्, शतक्रतुशंतस्तुत: ॥ ५२ ॥ शीतोदादक्षिणतटाश्रितं वनमुखं ततः । तत्सन्मुखं वनमुखं, शीतोदोत्तरकूलजम् ॥ ५३॥ वनस्यैतस्य पूर्वस्यां, विजयो वप्रनामकः । पूर्वतस्तस्य चन्द्राख्यो, वक्षस्कारगिरिभवेत् ॥ ५४ ॥ विजये विहरतत्यस्मिन्, सुबाहुर्जगदीश्वरः । अधुना देशनासारैः, पुनानो भव्यमण्डलम् ॥ ५५ ॥ ततस्सुवप्रविजयस्ततो नयूमिमालिनी । ततो महावप्रनामा, विजयः कथितो जिनैः ॥ ५६ ॥ तत: सूरो नामा गिरिस्ततो वप्रावती भवेत् । विजयोऽन्तेऽस्य गम्भीरमालिनी कथिता नदी ॥ ५७ ॥ ततश्च वल्गुविजयस्ततो नागाभिधो गिरिः । ततः सुवल्गुविजयस्ततश्च फेनमालिनी ॥ ५८ ॥ स्यादन्तरनदी तस्या, गन्धिलो विजयः परः । ततोगिरिदेवनामा, ततश्च विजयः किल ॥ ५९॥ स्यात् गन्धिलावती नाम्ना, ततश्च गन्धमादनः । गजदन्तगिरिस्तस्मादुत्तराः कुरवः पराः ॥ ६०॥ एवं च, कच्छः सुकच्छश्च महाकच्छ: कच्छावतीति च । आवतो मङ्गलावर्त, पुष्कल: पुष्कलावती ॥ ११ ॥ वत्सः सुवत्सश्च महावत्सो वत्सावतीति च । रम्यो रम्यकरमणीयौ मङ्गलावतीति च ॥ ६२ ॥ पक्ष्मः सुपक्ष्मश्च महापक्ष्मः पक्ष्मावतीति च । शङ्खश्च नलिनश्चैव, कुमुदो नलिनावती ॥ ६३ ॥ वप्रः सुवप्रश्च महावप्रो वप्रावती तथा । वल्गुः सुवल्गुर्विजयो, गन्धिलो गन्धिलावती ॥६४ ॥ द्वात्रिंशदेते विजया:, कच्छाद्याः सृष्टित: क्रमात् । माल्यवद्गजदन्ताद्रेरारभ्यागन्धमादनम् ॥६५॥ द्वाविंशतिः शतानीषन्यूनानि च त्रयोदश । योजनानीह विष्कम्भस्सर्वेषु विजयेष्वथ ॥६६॥ सहस्राणि षोडशैषामायामः पञ्चभिश्शतैः । योजनानां दानवत्या, चाढ्यानि द्विकलाढ्यया ॥६७ ॥ अन्तर्नदीनां सर्वासां, वक्षस्कारमहीभृताम् । सर्वेषामप्यसावेवायामो ज्ञेयो विचक्षणैः ॥ ६८ ॥ अत्रायमाम्नायः । शीताशीतोदयोर्वाद्धिप्रवेश एव यद्यपि । विष्कम्भः स्याद्योजनानां, पूर्णपञ्चशतात्मकः ॥ ६९ ॥ हीनो हीनतरोऽन्यत्र, तथाप्युभयकूलयोः । कच्छादीनां विजयानां, समीपे रमणोचित्तौ ॥७॥ दौ द्वौ तयोः स्तो रमणप्रदेशौ तदपेक्षया । सर्वत्राप्यनयोासो, भाव्यः पञ्चशतात्मकः ॥७१॥ ततो विदेहविष्कम्भे, शीताव्यासेन वर्जिते । अर्धितेऽन्तर्नदीवक्षस्काराद्रिविजयाततिः ॥७२॥ एते च विजयाः सर्वे, वैताढ्यैर्विहिता द्विधा । पूर्वापरायततया, स्थितै रजतकान्तिभिः ॥७३॥ स्वरूपतोऽमी भरतवैताढ्यस्य सहोदराः । आयामतश्च विजयविष्कम्भसदृशा इमे ॥७४ ॥ १ सूर्योन्दूनामसंख्येयानां भावात् शत शब्दोऽत्र शतश इत्यर्थकः, न तु शतमेवेन्द्राः, द्वात्रिंशत: चतुष्यष्टेः असंख्यातानामेव वा भावात् ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy