________________
158
औदारिकादियोग्यानां, स्यात् संघातननाम तु । संग्राहकं पुद्गलानां, दन्तालीव तृणावलेः ॥ २१६ ॥ षण्णां संहननानां च, संस्थानानां च तावताम् । तत्तद्विशेषकारीणि, स्युर्नामानि तदाख्यया ॥ २१७ ॥ तत्तद्वर्णगन्धरसस्पर्शनिष्पत्तिहेतवः । वर्णादिनामकर्माणि, विंशतिः स्युः शरीरिणाम् ॥ २१८ ॥ द्वित्रिचतु:समयेन प्रसर्पतां विग्रहेण परलोकम् । कूर्पूरलागलगोमूत्रिकादिवद्गमनरूपायां ॥ २१९ ॥ स्यादुदय आनुपूर्व्या: वक्रगतौ वृषभरज्जुकल्पाया: । स्वस्वगतिसमाभिख्या: चतुर्विधारताश्च गतिभेदात् ।। २२० ॥ गतिवृषभवत् श्रेष्ठा, सद्विहायोगतेर्भवेत् । खरादिवत् सा दुष्टा स्यादसत्वगतिनामतः ॥ २२१ ॥ वसा द्वित्रिचतुः पञ्चेन्द्रिया स्युस्त्रसनामतः । स्युः बादरा बादराख्यात्, स्थूलपृथ्यादयोऽगिनः ॥ २२२ ॥ लब्धिकरणपर्याप्ताः, पर्याप्तनामकर्मत: । प्रत्येकतनवो जीवाः, स्युः प्रत्येकाठ्यकर्मणा ॥ २२३ ॥ स्थिरनामोदयाद्दन्तास्थ्यादि स्यात् स्थिरमङ्गिनाम् । नाभेरुधं च मूर्धादि, शुभनामोदयात् शुभम् ॥ २२४ ॥ स्पृष्टो मूर्धादिना ह्यन्य:, शुभत्वादेव मोदते । अशुभत्वादेव परः, स्पृष्टः क्रुध्येत् पदादिना ॥ २२५ ॥ स्यात्प्रियोऽनुपकर्ताऽपि, लोकानां सुभगोदयात् । मनोरमस्वर: प्राणी, भवेत्सुस्वरनामतः ॥ २२६ ॥ अयुक्तवाद्यप्यादेयवाक् स्यादादेयनामत: । यशोनाम्नो यश:कीर्तिः, व्याप्नोति भुवि देहिनाम् ॥ २२७ ॥ तत्र चपराक्रमतपस्त्यागायुद्भूतयशसा हि यत् । कीर्तनं श्लाघनं ज्ञेया, सा यश:कीर्तिरुत्तमैः ।। २२८ ॥ यद्धा दानादिजा कीर्तिः, पराक्रमकृतं यशः । एकदिग्गामिनी कीर्तिः, सर्वदिग्गामुकं यशः ॥ २२९ ।। स्थावर: स्यात् स्थावराख्यात्, सूक्ष्म: स्यात्सूक्ष्मनामतः । अपर्याप्तोऽङ्गी म्रियेतापर्याप्तनामकर्मतः ॥ २३० ॥ साधारणाङ्गः स्यात् साधरणाख्यनामकर्मतः । अस्थिरास्थिदन्तजिह्वाकर्णादिः अस्थिरोदयात् ॥ २३१ ॥ नाभेरधोऽशुभं पादादिकं चाशुभनामतः । उपकर्ताऽप्यनिष्ठः स्याल्लोकानां दुर्भगोदयात् ॥ २३२ ॥
उक्तं च प्रज्ञापनावृत्तौ–“अणुवकए वि बहूणं, जो हु पिओ तस्स सुभगनामुदओ । उवगारकारगो विहु, न रुच्चए दुब्भगस्सुदए ॥ सुभगुदयेऽ वि हु कोई, किंचीआसज्ज दुब्भग्गो
जइवि । जायइ तद्दोसाओ जहा अभब्वाण तित्थयरो” ॥ दुष्टानिष्टस्वरो जन्तुर्भवेत् दुःस्वरनामतः । युक्तवाद्यप्यनादेयवाक्योऽनादेयनामतः ॥ २३३ ॥ अयशोऽकीर्तिभाग्जीवोऽयशोनाममोदयात् भवेत् । त्रसस्थावरदशके, एवमुक्ते स्वरूपतः ॥ २३४ ॥ परांघातोदयात् प्राणी, परेषां बलिनामपि । स्यात् दुर्द्धर्षः सदुच्छ्वासलब्धिश्चोच्छ्वासनामतः ॥ २३५ ॥ यतः स्वयमनुष्णोऽपि, भवत्युष्णप्रकाशकृत् । तदातपनामकर्म, रविबिम्बाङ्गिनामिव ॥ २३६ ॥ उष्णस्पर्शादयादुष्णस्याग्नेर्या तु प्रकाशिता । न ह्यातपात्सा किन्तु स्यात्तादृग्लोहितवर्णतः ॥ २३७ ॥ तदुद्योतनामकर्म, यतोऽनुष्णप्रकाशकृत् । भवति प्राणिनामङ्गं, खद्योतज्योतिरादिवत् ॥ २३८ ॥