________________
142
शतं पञ्चोत्तरं भेदप्रभेदैर्व्यन्तरामराः । भवन्ति नानाक्रीडाभिः, क्रीडन्त: काननादिषु ॥५६॥ ज्योतिष्का पञ्च चन्द्रार्कग्रहनक्षत्रतारका: । द्विधा स्थिराश्चराश्चेति, दशभेदा भवन्ति ते ॥ ५७ ॥ वैमानिका द्विधा कल्पातीतकल्पोपपन्नका: । कल्पोत्पन्ना द्वादशधा, ते त्वमी देवलोकजाः ॥ ५८ ॥ सौधर्मशानसनत्कुमारमाहेन्द्रब्रह्मलांतकजा: । शुक्रसहस्रारानतप्राणतजा आरणाच्युतजाः ॥ ५९॥ आद्यकल्पद्धयाधःस्थास्तृतीयाधस्तना अपि । लान्तकत्रिदिवाध:स्थास्त्रिधा किल्बिषिका अमी ॥६० ॥ कल्पातीता द्विधा ग्रैवेयकानुत्तरसम्भवाः । स्वामिसेवकभावादिकल्पेन रहिता इमे ॥ ६१ ॥ अधस्तनाधस्तनं च, स्यादधस्तनमध्यमम् । अधस्तनोपरितनं, मध्यमाधस्तनं ततः ॥ ६२ ॥ भवेन्मध्यममध्यं च, मध्योपरितनं ततः । उपरिस्थाधस्तनं चोपरिस्थमध्यमं पुनः ॥ ६३ ॥ उपरिस्थोपरिपतनं, तज्जा ग्रैवेयकाः सुराः । विजयादिविमानोत्थाः, पञ्चधाऽनुत्तरामराः ॥ ६४ ॥ सारस्वतादित्यवहिवरुणा गर्दतोयका: । तुषिताऽव्याबाधाग्नेयरिष्ठा लोकान्तिका अमी ॥ ६५ ॥ पर्याप्तापरभेदेन, सर्वेऽपि द्विविधा अमी । जाता: षट्पञ्चाशमेवं, सुरभेदाः शतत्रयम् ॥ ६६ ॥ पञ्चमाले तु-द्रव्यदेवा नरदेवा, धर्मदेवास्तथा परे । देवाधिदेवा ये भावदेवास्ते पञ्चमा मताः ॥ ६७ ॥ तत्र च- पञ्चेन्द्रियो नरस्तिर्यक् सम्पादितशुभायतिः । उत्पत्स्यते यो देवत्वे, द्रव्यदेवः स उच्यते ॥ ६८ ॥ नरदेवा: सार्वभौमा, धर्मदेवास्तु साधवः । देवाधिदेवा अर्हन्तो, भावदेवाः सुरा इमे ॥ ६९ ॥ इह भावदेवैरधिकारः ॥ इति भेदाः ॥ १ ॥ त्रैलोक्येऽपि स्थानमेषां, क्षेत्रलोके प्रवक्ष्यते । स्थानोत्पादसमुद्धातैलॊकासंख्यांशगा अमी ॥ ७० ॥ इति स्थानम् ॥ २ ॥ पर्याप्तयः षडप्येषां, पञ्चाप्यैक्यविवक्षया । वाक्चेतसोर्दश प्राणा, एतेषां परिकीर्तिताः ॥ ७१ ॥ इति पर्याप्तिः ॥ ३ ॥ चतस्त्रो योनिलक्षाः स्युर्लक्षाश्च कुलकोटिजा: । द्वादशैषामचित्ता स्याद्योनिः शीतोष्णसंवृत्ता ॥ ७२ ॥ इति द्वारत्रयम् ॥ ४ । ५। ६ ॥ पयोधयस्त्रयस्त्रिंशदुत्कर्षेण भवस्थितिः । सहस्राणि दशाब्दानां स्यादेषां सा जघन्यतः ॥७३॥ इति भवस्थितिः ॥७॥ कायस्थितिस्त्वेषां भवस्थितिरेव ॥८॥ देहास्त्रयस्तैजसं च, कार्मणं वैक्रियं तथा । संस्थानं चतुरस्र स्याद्रम्यं पुण्यानुसारतः ॥ ७४ ॥ इति द्वारद्वयम् ॥ ९ । १० ॥ उत्कर्षतः सप्तहस्ता, वपुर्जघन्यत: पुन: । अङ्गलासंख्याभागः स्यादादौ स्वाभाविकं ह्यदः ॥ ७५ ॥ तत्कृत्रिमं वैक्रियं साधिकैकलक्षयोजनम् । ज्येष्ठमङ्गलसंख्यांशमानमादौ च तल्लघु ॥७६ ॥