________________
110
पुष्पाणां त्वयं विशेष:जलस्थलोद्भूततया, द्विधा सुमनसः स्मृताः । नालबद्धा वृन्तबद्धाः, प्रत्येकं द्विविधास्तु ताः ॥ १२९ ॥ याः काश्चिन्नालिकाबद्धास्ता: स्युः संख्येयजीवका: । अनन्तजीवका ज्ञेया:, स्नुहीप्रभृतिजा: पुनः ॥ १३० ॥ किंच-पद्मोत्पलनलिनानां सौगन्धिकसुभगकोकनदकानाम् । अरविन्दानां च तथा शतपत्रसहस्त्रपत्राणाम् ॥ १३१ ॥ वृन्तं बाह्यदलानि च सकेसराणि स्युरेकजीवस्य । पृथगेकैकजीवान्यन्तर्दलकेसराणि बीजानि ॥ १३२ ॥ पर्वगाणां तृणानां च अयं विशेष:द्रक्कुडीक्षुनडादीनां, सर्ववंशभिदां तथा । भवन्त्येकस्य जीवस्य, पर्वाक्षिपरिमोटकाः ॥ १३३ ॥ तत्राक्षि प्रोच्यते ग्रन्थिः, प्रतीतं पर्व सर्वतः । चक्राकारं पर्वपरिवेष्टनं परिमोटकः ॥ १३४ ॥ पत्राणि प्रत्येकमेषामेकजीवाश्रितानि वै । पुष्पाण्यनेकजीवानि, प्रोक्तानि परमर्षिभिः ॥ १३५ ॥ फलेषु च एषामयं विशेष:पुष्पफलं कालिङ्गं तुम्बं चिर्भटमथ त्रपुषसंज्ञम् । घोषातकं पटोलं तिन्दूकं चैव तेन्दूषम् ॥ १३६ ॥ एतेषां चवृन्तगर्भकटाहानामेको जीव: समर्थकः । पृथग्जीवानि पत्राणि, बीजानि केसराण्यपि ॥ १३७ ॥
एतच्च सर्वमर्थतः क्वचित् पाठतश्च प्रायः प्रज्ञापनागतमेव ॥ श्रीहेमचन्द्रसूरिभिश्चाभिधानचिन्तामणावित्युक्तम्-“कुरणटाद्या अग्रबीजा, मूलजास्तूत्पलादयः । पर्वयोनय इक्ष्वाद्याः, स्कन्धजा: सल्लकीमुखाः ॥ शाल्यादयो बीजरुहाः, संमूर्छजास्तृणादयः । स्युर्वनस्पतिकायस्य, षडेता मूलजातयः” ॥
___ इदमर्थतः प्रथमाङ्गेऽपि दशवैकालिकेऽपि ॥ जीवाभिगमे तुचतस्त्रो मुख्यवल्लयः स्युः, तावच्छताश्च तद्भिदः । ख्याता मुख्यलता अष्टौ, तावच्छताश्च तद्भिदः ॥ १३८ ॥ नामग्राहं तु ता नोक्ताः, प्राक्तनैरपि पण्डितैः । ततो न तत्र दोषो नः, तत्पदव्यनुसारिणाम् ॥ १३९ ॥ त्रयो हरितकायाः स्युः, जलस्थलोभयोद्भवाः । भेदाः शतानि तावन्ति, तदवान्तरभेदजाः ॥ १४० ॥ सहनं वृन्तबद्धानि, वृन्ताकादिफलान्यथ । सहस्रं नालबद्धानि, हरितेष्वेव तान्यपि ॥ १४१ ॥ किंच-मूलत्वक्काष्ठनर्यासपत्रपुष्पफलान्यपि । गन्धांगभेदाः सप्तामी, जिनैरुक्ता वनस्पतौ ॥ १४२ ॥ मूलमौशीरवालादि,त्वक् प्रसिद्धा तजादिका । काष्ठं च काकतुण्डादि, निर्यासो घनसारवत् ॥ १४३ ॥ पत्रं तमालपत्रादि, प्रियङ्ग्वादिसुमान्यपि । कक्कोलैलालवङ्गादि, फले जातिफलाद्यपि ॥ १४४ ॥ मूलादयस्ते सप्तापि, नानावर्णा भवन्त्यतः । गुणिता: पञ्चभिर्वर्णैः, पञ्चत्रिंशत् भवन्ति हि ॥ १४५ ॥ दुर्गन्धाभावत: श्रेष्ठगन्धेनैकेन ताडिताः । ते पञ्चत्रिंशदेव स्युरेकेन गुणितं हि तत् ॥ १४६ ॥