________________
85
सूरेषूत्पद्यतेऽवश्यं, बद्धायुः क्षीणसप्तकः । चेत्तदानीमपतितपरिणामो म्रियते सः ॥ ११७६ ॥ निपतत्परिणामस्तु, बद्धायुर्मियते यदि । गतिमन्यतमां याति, स विशुद्ध्यनुसारतः ॥ ११७७ ॥ बद्धायुष्कोऽथाक्षतायुः, क्षपको म्रियते न चेत् । नियमात् सप्तके क्षीणे, विश्राम्यति तथाऽप्यसौ ॥ ११७८ ॥ सकलक्षपकश्चाथ, विधाय सप्तकक्षयम् । क्षयं नयेत् स्वर्नरकतिर्यगायूंष्यतः परम् ॥ ११७९ ॥ प्रत्याख्यानाप्रत्याख्यानाष्टकमन्तयेत् गुणे नवमे । तस्मिन्नर्द्धक्षपिते, क्षपयेदिति षोडशप्रकृती: ॥ ११८० ॥ तिर्यग्नरकस्थानवरयुगलान्युद्योतमातपं चैव । स्त्यानर्द्धित्रयसाधारणविकलैकाक्षजातीश्च ॥ ११८१ ॥
अत्र तिर्यग्युगलं तिर्यग्गतितिर्यगानुपूर्वीरुपम् । नरकयुगलं-नरकगति नरकानुपूर्वीरूपम् । स्थावरयुगलं-स्थावरसूक्ष्माख्यम् ॥ इति ज्ञेयम् ॥ अर्धदग्धेन्धनो वहिर्दहेत्प्राप्येन्धनान्तरम् । क्षपकोऽपि तथाऽत्रान्तः, क्षपयेत्प्रकृती: पराः ॥ ११८२ ॥ कषायाष्टकशेषं च, क्षपयित्वाऽन्तयेत् क्रमात् । क्लीबस्त्रीवेदहास्यादिषट्कपूरुषवेदकान् ॥ ११८३ ॥
एषः सूत्रादेशः ॥ अन्ये पुनः आहुः षोडश कर्माण्येव पूर्वं क्षपयितुमारभते ॥
केवलमपान्तरालेऽष्टौ कषायान् क्षपयति, पश्चात् षोडश कर्माणि, इति कर्मग्रन्थवृत्तौ ॥ क्रमः पुंस्यारम्भकेऽयं, स्त्री तु क्षपयति क्रमात् । क्लीबपुंवेदहास्यादिषट्कं स्त्रीवेदमेव च ॥ ११८४ ॥ क्लीबस्त्वारम्भको नूनं, स्त्रीवेदं प्रथमं क्षपेत् । पुंवेदं हास्यषट्कं च, नपुंवेदं ततः क्रमात् ॥ ११८५ ।। तत: संज्वलनक्रोधमानमायाश्च सोऽन्तयेत् । तत: संज्वलनं लोभं, क्षपयेद्दशमे गुणे ॥ ११८६ ॥ लोभे च मूलतः क्षीणे, निस्तीर्णो मोहसागरम् । विश्राम्यति स तत्रान्तर्मुहूर्तं क्षपको मुनिः ॥ ११८७ ॥
तथोक्तं महाभाष्ये–'खीणे खवगनियट्ठो वीसमये मोहसागरं तरिउम् । अंतोमुहुत्तमुदहिं, तरिउँ थाहे जहा पुरिसो' ॥ [विशेषावश्यक श्लो. १३४०] गतोऽथ द्वादशे क्षीणकषायाख्ये गुणेऽसुमान् । निद्रां च प्रचलां चास्यान्तयेदन्त्यादिमक्षणे ॥ ११८८ ॥ पञ्चज्ञानावरणानि, चतस्रो दर्शनावृती: । पञ्चविघ्नांश्च क्षणेऽन्त्ये, क्षपयित्वा जिनो भवेत् ॥ ११८९ ॥ एवं चअष्टचत्वारिंशदाद्यं, शतं प्रकृतयोऽत्र या: । सत्तायामभवंस्तासु, षट्चत्वारिंशतः क्षयात् ॥ ११९० ॥ द्वयाचं शतं प्रकृतयोऽवशिष्टा दशमे गुणे । क्षीणमोहद्धिचरमक्षणावध्येकयुक्शतम् ॥ ११९१ ॥ सत्तायां नवनवतिः, क्षीणमोहान्तिमक्षणे । चतुर्दशक्षयादत्र, पञ्चाशीतिः सयोगिनि ॥ ११९२ ॥ ततोऽयोगिद्धिचरमक्षणे दासप्ततिक्षयः । अयोगिनः क्षणेऽन्त्ये च, शेषत्रयोदशक्षयः ॥ ११९३ ॥ अत्र भाष्यम्-'आवरणक्लयसमये, निच्छड्यनयस्स केवलुप्पत्ती । तत्तोऽणंतरसमये, ववहारो केवलं भणइ' ॥ इति द्वादशम् ॥ [विशेषावश्यक श्लो. १३४२] योगो नामात्मनो वीर्य, तत्स्यालब्धिविशेषत: । वीर्यान्तरायक्षपणक्षयोपशमसम्भवात् ॥ ११९४ ॥