SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ न्धात् पृष्टः स यथावदाचष्ट । देवेनोक्तमन्यायार्जितमिदं सर्वथा न' ग्रहणाई । अनेन न्यायार्जितस्वधनस्याप्यवश्यं विनाशः स्यात्' काञ्जिकेनेव दुग्धस्येत्युक्त्वा तत्सर्व पृथक् कृत्य तस्मै दत्तं । एवमागतं वित्तं कथं त्यज्यते ? इति लोमात् सर्व स्वभाण्डशालायां गृहीत्वा गतः । रात्रौ च चौरैः सर्व मुषितं । प्रभाते तद्वस्तुग्राहकैरतिप्रभूतैरागतैर्देवस्य द्विगुणमूल्यादिनाऽतिलाभो जातः। ततो द्वितीयोऽपि सुश्रावकीभूय व्यवहारशुध्ध्या धनार्जनात्सुखी जज्ञे । इति न्यायान्यायधनार्जने मित्रद्वयवृत्तम् । अत्रैव लौकिकं ज्ञातं यथा-चंपायां सोमःक्ष्मापतिः सूर्यपर्वणिं दानार्थ शुभं द्रव्यं योग्यं च पात्रं मन्त्रिपार्चे पप्रच्छ । मन्त्र्याह, पात्रमेकोऽत्र विमोऽस्ति परं शुभद्रव्यं दुर्लभं, विशिष्य च राज्ञः। यतः-" दातुर्विशुद्धवित्तस्य, गुणयुक्तस्य चार्थिनः । दुर्लभः खलु संयोगः, सुबीजक्षेत्रयोरिव ॥१॥" ततो नृपः पर्वोपरि (सर्वोपरि) पात्रदानायष्टिदिन रात्रौ नष्टचर्यया वणिजां हटेषु वणिक्पुत्राई कर्म निर्माय तन्मूल्येऽष्टो द्रम्मानर्जयामास । पर्वणि च सर्वान् द्विजानाकार्य पात्रविप्राकारणाय प्रधानं प्रेषीत् । तेन गत्वा स आकारितः। प्रत्याह-“यो'राज्ञः प्रतिगृह्णाति, ब्राह्मणो लोभमोहितः । तमिस्रादिषु घोरेषु, नरकेषु स पच्यते ॥१॥राज्ञः प्रतिग्रहो घोरो, मधुमिश्रविषोपमः । पुत्रांसं वरं भुक्तं, न तु राज्ञः प्रतिग्रहः ॥२॥ दशशूनासमश्चक्री, दशचक्रिसमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥३॥” इति पुराणस्मृत्यादिवचनाद् दुष्टं राजपतिग्रहं न गृहामि । प्रधानेनोक्तं, "राजा न्यायेन स्वभुजार्जितं सद्वित्तमेव दास्यति तद्ग्रहणे तव न कश्चिद्दोषः" इत्याद्युक्त्या प्रबोध्य तं राज्ञोऽन्तिकमानयत् । राज्ञा हृष्टेन स्वासनदौकनपादधावनादिबहुविनयेन तेऽष्टौ द्रम्मास्तन्मुष्टिमध्येऽक्षिप्यन्त । अस्मै किञ्चित्सारमर्पितं ' इति किञ्चित्सरुषोऽप्यन्ये विमा हेमादिदानतः समतोष्यन्त । सर्वे च विसृष्टाः । षण्मास्यादिना तत्सर्व क्षीणं तेषां । ते त्वष्टौ द्रम्माः पात्रद्विजेन भोजनवेषप्रमुखकार्येषु व्यापार्यमाणा अपि न्यायाजिंतत्वेन नाक्षीयन्त । चिरेणाप्यक्षयनिधिवत्सुबीजवच्च श्रियोवृद्ध्यै जज्ञिरे । इति न्यायार्जितवित्ते सोमनृपप्रबन्धः ।। इह न्यायार्जितवित्तसत्पात्रविनियोगाभ्यां चतुर्भङ्गी । तत्र न्यायागतविभवसत्पात्रविनियोगरूपः प्रथमो भङ्गोऽक्षेपेण पुण्यानुबन्धिपुण्यहेतुत्वात्सुदेवत्वभोगभूमिमनुष्यसम्यक्त्वादिप्राप्त्या आसन्नसिद्धिफलो धनसार्थवाहशालिभद्रादिवत् १। न्यायागतद्रव्ययत्तत्पात्रपोषरूपो द्वितीयो भङ्गः, पापानुबन्धिपुण्यहेतुत्वाद्यत्र तत्र भवेषु भोगमात्रफलोऽपि प्रान्ते विरसफल एव, यथा लक्ष्यभोज्यकृतिमा बहुभवेषु किश्चिद्भोगादिसुखानि भुक्त्वा सेचनकनामा सर्वाङ्गसुलक्षणो भद्रहस्ती जातो लक्षभोज्योद्धरितानादिसुपात्रदानदायिनिःस्वद्विजजीवं सौधर्मे सुरीभूय च्युतं श्रेणिकसुतं राजकन्यापश्चशती परिणेतारं नन्दिपेणकुमारं दृष्ट्वा जातजातिस्मृतिरपि प्रथमनरकगामी २ । अन्योयायातविभवसत्पात्रपरिपोषरूपस्तृतीयः, सुक्षेत्रोप्तसामान्यबीजफलप्ररोहवदायतौ सुखमसवानुबन्धितया राज्ञा व्यापारिणां बहारंभोपार्जितद्रव्याणां चानुज्ञातः । यतः-" काशयष्टिरिवैषा श्रीरंसारा विरसाप्यहो । नीतेक्षुसमतां धन्यैः, सप्तक्षेत्रीनिवेशनात् ॥१॥ खलोऽपि गवि दुग्धं स्याद्दग्धमप्युरगे विषम् । पात्रापात्रविशेषेण, तत्पात्रे दानमुत्तमम् ॥ २॥ सा साइ तं पि जलं, पत्तविसेसेण अंतरं गुरु। अहिमुहपडिअंगरलं, सिप्पउडे मुत्ति होइ ॥३॥" अबार्बुदोपरि चैत्यकारमंत्रिविमलादयो दृष्टान्ताः प्रतीताः । महारंभाधनुचितवृत्तिसश्चितं हि द्रव्यं सुक्षेत्रवापादि विना दुष्कीर्तिदुर्गतिफलमेव मंमणश्रेष्ठथादिवत् ॥३॥ अन्यायार्जितार्थकुपात्रपोषरूपश्चतुर्थ इह साधुजनगर्हित्वात्परत्र कुगतिनिबन्धनत्वाच त्याज्य एव विवेकिनां । यतः-" अन्यायोपातवित्तस्य, दानमत्यन्तदोषकृत् । धेनुं निहत्य तन्मांसैयाक्षणामिव तर्पणम् ॥१॥ अन्यायोपार्जितैर्वित्तैर्यत् श्राद्धं क्रियते जनैः । तृप्यन्ते तेन चाण्डाला, बुक्कसा दासयोनयः ॥ २ ॥ दत्तः स्वल्पोऽपि भद्राय, स्यादर्थो न्यायसङ्गतः। अन्यायात्तः पुनर्दत्तः, पुष्कलोऽपि फलोज्झितः॥३॥ अन्यायोपात्तवित्तेन, यो हितं हि समीहते । भक्षणात्कालकूटस्य, सोऽभिवाञ्छति जीवितम् ॥ ४॥" इह चान्यायार्थोपजीविनो गृहस्थादेः प्रायेणान्यायकलहाहकार पापबुद्धिप्रवृत्तिरेव रकश्रेष्ठ्यादिवत् । यथा-मरुस्थल्यां पल्लीग्रामे काकुयाक-पाताको भ्रातरौ, तयोः कनीयान् धनी, ज्यायांस्तु निःस्वत्वेन तदगृहे भृत्यकृत्या निर्वहते । एकदा वर्षारात्री दिवसकर्मपरिश्रान्तः काकुयाको रात्रौ प्रसुप्तः पाताकेनाभिदधे,-" भ्रातः! स्वकेदाराः पयःपूरैः स्फुटितसेतवस्तव तु निश्चिन्तता" इत्युपालब्धः । स तदा त्यक्तस्रस्तरः स्वं दरिद्रं परगृहकर्मकारिणं निन्दन् कुद्दालं लात्वा यावत्तत्र याति, तावत् कर्मकरान् स्फुटितसेतुबन्धरचनापरान् दृष्ट्वा ‘केयूयं' ? इति पृष्टाः। 'भवदभ्रातुः कर्मकरा' इति तैरुक्ते, 'कापि मदीयास्ते सन्तीति' ? पृष्टे, 'वलभीपूर्या सन्तीति' ते पाहः । अथ कालक्रमेण प्रस्ताव प्राप्य वलभ्यां गतः सकुटुम्बः। तत्र गोपुरासनवास्यांभीराणां सन्निधौ निवसन्नत्यन्तकृशतया तै रङ्क इति दत्ताभिधानस्तार्णमुटजं कृत्वा तेषामवष्ट भेना मण्डयित्वा तस्थौ । एकदा कश्चित्कार्पटिकः कल्पप्रमाणेन रैवतशैलादलाबुना सिद्धरसमादाय मार्गे ' काकुतुंबडी' इति सिद्धरसादैशरीरिणीं वाणी निशम्य जातभीर्वलभीपरिसरे तस्य सच्छद्मनो वणिजः सानि तदलाबु तत्र न्यासीचक्रे । स स्वयं सोमनाथयात्रार्थ गतः । कस्मिन्नपि पर्वणि पाकविशेषाय चुल्लीनिहिता तापिकामलाबुरन्ध्राद गलितरसबिन्दुना हिरण्मयीं निभाल्य स वणिक् तं सिद्धरसं निर्णीय तदलाबुसहितं गृहसारमन्यत्र स्थापयित्वा स्वगृहं ज्वालयित्वा परस्मिन् गोपुरे गृहं कृत्वा स्थितः। तत्र निवसन् प्राज्याज्यक्रयकारिण्याः स्वयं घृतं तोलयंस्तदक्षी76 श्रीश्राद्धविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy