SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ 'मरः । अंतःपुरपरीत संभिषसाद 'स' सादरम् ॥१०॥ उदारं सारशृंगारं श्रृंगारमिव जंगमम् । स्वं शुदांतं स निध्याय ध्यायतिस्मेति विस्मयात् ॥११॥ अंतःपुरं पुरंध्रीणां सारोदार इवावनेः । मयैतत्याप्यत विधेः कार्यहो सुमसमता ॥ १२ ॥ ईशः सुदृशः संति नूनं नान्यस्य' कस्यचित् । तारास्तारापतेरेव 'दाराः सर्वग्रहेषु वा ॥ १३॥ इत्युच्चैः प्रौदिसुमापा-याव होन्नृपस्य हृद् । पूरादिव' सरिद्वर्षासुमापात्प्लवते बहिः ॥१४ ।। तावत्प्रस्ताववक्तेव पंडितः पिंडितः श्रिया । कश्चिदुचैः शुकः श्लोकं, माकंदस्थोऽब्रवीद्यया ॥१५॥ क्षुद्रस्यापि'न'कस्य' स्याद्र्वचित्तप्रकल्पितः । शेते'पातभयाद् व्योम्नः पादावुक्षिप्य 'टिटिभः ।। १६ ॥ तं निशम्य नृपो दध्या-चहो धृष्णुरयं शुकः । एवं गर्व प्रकुर्वतं खर्वीकुर्वीत मां किमु ॥ १७ ॥ यदिवाजाकपाणीयात्काकतालीयतोऽथवा । घुणाक्षरीयात्खलतिबिल्वीयादथवा 'नयात् ॥१८॥ स्वभावेनैव कीरोऽमुं 'पापठीय॑शठाशयः । ध्यायत्येवं नृपे कीरः पुनरन्योक्तिमुक्तवान् ॥१९॥ युग्मम्॥ पक्षिन् प्राप्तः कुतस्त्वं ननु निजसरसः किंमभं तन्महीयः किं मे धाम्नोऽपि काम अलपसि किमरे मत्पुरः पाप मिथ्या । भेकः किंचित्ततोऽधौ स्थित इति शपते हंसमभ्यर्णगं घिग् दृप्यत्यल्पेऽपि तुच्छ समुचितमिति वातावदेवांस्य बोद्धः ॥२०॥ श्रुत्वेत्यैचिंतयभूपः कूपमंदूककल्पता । कल्पिानेन मे नूनमन्योक्तिं जल्पता सता ।। २१॥ तदयं शुककोटीरश्चित्र 'ज्ञानी मुनीशवत् । इति ध्यायति धात्रीशे स एवपुनरर्यवाक् ॥२२॥ ग्रामीणस्य जडाग्रिमस्य ' नितमा ग्रामीणता कापि यः' स्वं ग्रामं दिविषत्पुरीयति' कुटी मानी विमानीयति। स्वर्भक्ष्यीयति च स्वभक्ष्यमखिलं 'वेषं युवेषीयति स्वं शक्रीयति चात्मनः परिजनं सर्व सपर्वीयति ॥२३॥ व्यधाद बुधाग्रणीर्याम्यसाम्यमप्येष मे ततः । इतोऽप्यंतःपुरात्कापि परा'रामास्ति किं परा ॥२४॥ इत्यंतायिनं धांच्याः स्वामिन'स शुकाग्रणीः । द्विधा मनोज्ञः प्राहेत्यं नार्दोक्तिर्हि नृणां मुदे ॥२५॥ युग्मम् ।। तावदेव स्वकीयं भो' भूपतेऽतःपुरं परम् । मन्यसे प्रेक्षसे यावन्न गांगलिऋषेः सुताम् ॥२६॥ सर्वोगशुभगा विश्वत्रितयेऽप्यतिशायिनीम् । सृष्टा'यां मृष्टिकृत्सृष्टिश्रमस्य फलमाप्तवान् ॥२७॥ सा कन्या येन 'नो दृष्टा निष्फलं तस्य जीवितम् । दृष्टापि येन नाश्लिष्टा" निष्फलं तस्य जीवितम् ॥ २८ ॥ तां बालां दृष्टपूर्वी यस्तस्यान्यासु रतिः कथम् । रज्यतेऽन्यत्र किं कुत्राप्यलिालोक्य मालतीम् ॥२९॥ बाला कमलमालां तां सुतामिव दिवस्पतेः । घेदिक्षुर्जिघृक्षुश्च समागच्छेस्तदा द्रुतम् ॥ ३०॥ एवमुक्त्वा' समुड्डीने तूर्ण तत्र पतत्त्रिणि। अत्यौत्सुक्यं दधच्चित्तेंऽभिधत्ते स्म'मुहुर्नृपः ॥३१॥ भो भोः पवनवेगं मे हयं सत्यान्वयाहयम् । आनयध्वमानयध्वं प्रगुणीकृत्य भृत्यकाः ॥३२॥ भृत्यैरपि सपर्याणमणिमुपढौकितम् । तमारूढः 'क्ष्मापकोटीकोटीरः कीरमन्वगात् ॥३३॥ राज्ञोऽन्येन हि केनापि सा च केनापि हेतुना । आसन्नेनापि नांश्राविकीरोक्तिर्दरगैरिव ॥३४॥ तेनाद्य राज्ञः किं जज्ञे कचोद्यातीति विडलाः। मंत्र्यादयोन्यवर्तत कियन्मार्गेऽनुगम्य'तम् ॥३५॥ शुकोऽग्रे'पार्थिवः पश्चादित्युद्यांतौ च तौ क्षणात् । योजनानां पंचशतीमतीयतुः समीरवत् ॥३६ ॥ किंचिद् दिव्यानुभावेन' भूमींद्रोऽपि हयोऽपि सः । तावन्मार्गमतिक्रांती'न तु श्रांती मनागपि ॥३७॥ कर्मणेवामुना कृष्टः ' पक्षिणा 'विघ्नराक्षिणा । भवांतरमिव प्राणी मापः'पाप'महाटवीम् ॥३८॥ कोऽप्यहो' प्राग्भवाभ्यासव्यासवासः' सतामपि । स्थानाद्यनिर्णयेऽप्यस्या' यद्दधावेति भूधवः ॥३९॥ तस्यामटव्यां दिव्यांशु मेरुश्रृंगमिवागतम् । अस्ति स्वस्तिदमांचाईच्चैत्यं स्वर्णमणीमयम् ॥४०॥ निविश्य तस्य कलशे कलगीस्तं ' जगौ शुकः। श्री आदिदेवं वंदस्व'राजन्नाजन्मशुद्धये ॥४१॥ राजापि कीरराजस्य गमनारेकया रयात । हयाधिरूढ एवोच्चैः प्रणनाम जिनाधिपम् ॥४२॥ विज्ञो विज्ञाय तत्पक्षी हितैषी क्षितिपस्य सः। अंतश्चैत्यमुपागत्य कृत्यविमाणमत्प्रभुम् ॥ ४३ ॥ राजाप्युत्तीर्य वाजीदादतः प्रासादमीसदत् । अनुकीरमनुज्ञानं सन्मनोंऽतर्विवेकवत् ॥४४॥ मणीमयीमंप्रतिमां प्रतिमां तत्र चार्षभीम् । प्रणिपत्य नृपस्तुष्टस्तुष्टुवे' सुष्टुवागिति ॥४५॥ एकस्माद्रणरणकः परस्माच्च न नैपुणम् । स्तोत्रे ते भक्त्यशक्तिभ्यां चेतो दोलायते मम ॥४६॥ तथापि त्वां यथाशक्ति नाथ स्तुतिपथं नये । मशकोऽपि किमु व्योम नोत्प्लवेत स्ववेगतः ॥ ४७ ॥ कथं ' तामितदातुर्मितदाः स्वर्दुमादयः । उपमामुपयांतीति नोपमेयोऽसि केनचित् ॥ ४८ ॥ न प्रसीदसि कस्यापि न ददासि च किंचन । तदप्याराध्यसे सर्वैरहो तेरीतिरगता ॥४९॥ निर्ममोऽपि जगत्त्राता निःसंगोऽपि जगत्पभुः । लोकोत्तरस्वरूपाय नीरूपाय नमोऽस्तु ते ॥५०॥ इति जिनेंद्रस्तवः । अशृणोन्ममृणोद्गारांतामुदारां मुदा स्तुतिम् । महर्षिगागिलिः प्रत्यासन्नमाश्रममाश्रितः ॥५१॥ ततः कुतोऽपि संकेतात्माप्तः 'सोऽर्हनिकेतनम् । जटाशाली वल्कवासाः कृत्तिवासा इवांपरः ।। ५२ ।। सोऽपि श्रीऋषभं भक्त्यांभिवंद्यांनिंद्यविघहृद् । हयानवद्यसद्यस्कगद्यैस्तुष्टाव ' तद्यया ।। ५३ ॥ जय ! त्रिजगदेकनाथ! विश्वत्रयोपकृतिप्रथासमर्थ ! सदनंतातिशयश्रीसनाथ! जय श्रीनाभिभूपालविपुलकुल कमलसमुल्लासहंस! त्रिभुवनजनस्तवनीय! कमनीयश्रीमरुदेवास्वामिनीकुक्षिसरोवरराजहंस! जय त्रैलोक्यस्तिोकलोकमनःकोक निःशोकताकरणसहस्रकर ! अपरसर्वदैवतगर्वसर्वकष ! निस्तुषनिस्सीमनिस्सममहिमकमलाविलासकमलाकर ! जय स्वरसभक्तिरसपसरप्रस्फुरदहमहमिकामणमदमरनरनिकाशिरःकोटिसंटकिमाणिक्यकोटीरकांतिनीरलहरिपक्षालितपदकमल! १ महादेवः श्रीश्राद्धविधिप्रकरणम 11
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy