SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ " कासूचीकण्टककर्षणकागदकुंपक लेखनीकलापक पुस्तकांदिकं श्रीगुरुभ्यो दत्ते । यद्दिनकृत्यसूत्रं - " वत्थं पत्तं च पुत्थं च, कंबळं 'पायपुंछणं । दंडं'संथारयं सिज्जं, अन्नं जं किंचि सुज्झई ॥ १ ॥ " 'पुत्थंति' पुस्तकं पञ्चविधमप्यपवादिकं । 'अन्नंति' अन्यदप्यौघिकौपग्रहिकभेदभिन्नं मुख वस्त्रिकादण्डप्रोव्छनकादिकं यच्छुध्यति संयमोपकारे वर्त्तते । तदुक्तं – “ जं बहइ उबयारे, उवगरणं तंसि होइ उवगरणं । अइरेगं अहिगरणं, अजओ अजयं परिहरतो ।। १ ।। " " परिहरतो' इति आसेवमानः ' परिहारो परिभोगो ' इति वचनात् । ततोऽग्रतश्च यत्परिभुञ्जानो भवतीत्यर्थ इति प्रवचनसारोद्धारवृत्तौ । एवं च प्रातिहा - रिकपीठफलकपट्टिकाद्यपि संयमोपकारि सर्व साधुभ्यः श्रद्धया देयं । सुच्यादीनामुपकरणत्वं श्रीकल्पेऽप्युक्तं यथा - " असणाई' वध्थाई 'सूआइ चउकगा तिभि । " अशनादीनि वस्त्रादीनि । मुच्यादीनि चेति त्रीणि चतुष्कानि द्वादश । यथा अर्शनं पोनं' खादिमं स्वोंदिमं वस्त्रं पत्रं कंबलं पादप्रार्च्छनं सूची' पिप्पलको नखैच्छेदनकं कर्णशोधनैकं चेति । एवं श्राद्धश्राविकासङ्गमपि यथाशक्ति सभक्ति परिधापनादिना सत्करोति, यथोचितं च देवगुर्वादिगुणगायकान् याचकादीनपि । संघाच च त्रिधा, उत्कृष्टा मध्यमा जघन्या च । सर्वदर्शनसर्वसंघपरिधापने उत्कृष्टा । सूत्रमात्रादिना जघन्या । शेषा मध्यमा । तत्राधिक व्ययितुमशक्तोऽपि गुरुभ्यः सूत्रमुखवस्त्रिका दिकं द्वित्रिश्राद्ध श्राद्धीभ्यः पूगादि च दत्वा प्रतिवर्षे संघार्चाकृत्यं भक्त्या सत्यापयति । निःस्वस्य च तावदपि महाफलं । यतः - " संपत्तौ नियमः शक्तौ सहनं यौवने व्रतम् । दारिद्रये दानमप्यल्पं, महालाभाय जायते ।। १ ।। ” मन्त्रिवस्तुपालादीनां तु प्रतिचातुर्मासकं सर्वगच्छसंघांर्चाविधानादि श्रूयते भूयस्तरवित्तव्ययादि च । ढिल्यां साधुजगसीसुतसाधुमहणसिंहेन श्रीतपागच्छाधिपपूज्य श्रीदेवसुन्दर सूरिभक्तेनैकस्यामेव संघाचयां सर्वदर्शनसंघपरिधापनादिना चतुरशीतिसहस्रटङ्ककव्ययः कृतः । द्वितीयस्मिन्नेव दिने प्राप्तानां प्राक्तदाकारितश्रीगुरुप्रहितपण्डितदेवमङ्गलगणीनां प्रवेशे संक्षिप्तसंघार्चायां पुनः षट्पञ्चाशदृङ्ककसहस्री व्ययितेत्यादि श्रूयते । इति संघाचविधिः । 1 साधर्मकाणां वात्सल्यमपि सर्वेषां कियतां वा यथाशक्ति कार्य । समानधर्माणो हि प्रायेण दुष्प्रापाः । यदवादिष्म - " सर्वैः सर्वे मिथः सर्व संबन्धलब्धपूर्विणः । साधर्मिकादिसंबन्धलब्धारस्तु मिताः कचित् ॥ १ ॥ " तेषां च सङ्गमो हि महते पुण्याय किं पुनस्तदनुरूपा प्रतिपत्तिः १ । यतः - “ एगत्थ सव्वधम्मा, साहम्मियवच्छलं तु एगत्थ । बुद्धितुला तुलिआ दो विअ तुल्लाई भणिआई ।। १ ।। " तत्मत्तिपत्तिश्चैवं, स्वपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि प्रकरणे साधर्मिकाणां निमन्त्रणं विशिष्टभोजनताम्बूलवस्त्राभरणादिदानमापनिमग्नानां च स्वधनव्ययेनाप्यभ्युद्धरणं । अन्तरायदोषाच विभवक्षये पुनः पूर्व भूमिकाप्रापणं । किं हि तस्य मौढिम्ना यः समानसाधर्मिकान् समृद्धान् न कुरुते । उक्तमपि – “ न कयं दीद्धरणं, न कथं साहम्मिआणवच्छलं । हिअयम्मि बीअराओ, न धारिओ हारिओ जम्मो ॥ १ ॥ " धर्मे च विषीदतां तेषां तेन तेन प्रकारेण धर्मे स्थैर्यारोपणं । प्रमाद्यतां च स्मारणवारण नोदनप्रतिनोदनादिकरणं । यतः “ पम्हट्टे सारणा बुत्ता, अणायारस्स वारणा । चुक्काणं चोअणा भुज्जो, निठुरं पडिचोअणा ।। १ ।। " तथा तेषां वाचनाप्रच्छनापरिवर्तनानुप्रेक्षाधर्मकथादिषु यथायोगं विनियोजनं । विशिष्टधर्मानुष्ठानकरणार्थं साधारणपौषधशालादेः कारणमित्यादि । श्राविकास्वपि वात्सल्यं श्रावकवर्दन्यूनातिरिक्तमुन्नेतव्यं । ता अपि ज्ञानदर्शनचारित्रवत्यः शीलसन्तोषप्रधानाः सधवा विधवा वा जिनशासनानुरक्तमनसः साधर्मिकत्वेन मान्याः । ननु खियो लोके लोकोत्तरे च दोषभाजनत्वेनैव प्रसिद्धाः, एताः खल्बभूमिका विषकन्दल्यः, अनभ्रसम्भवा वज्राशनयः ।, अनौषधा व्याधयः, अकारणो मृत्युः, अनिमित्त उत्पातः, अफणाः सर्पिण्यः, अकन्दरा व्याघ्रयः, प्रत्यक्षराक्षस्यः, गुरुबन्धुस्नेहविघातहेतवः असत्यमायादिबहुलाः । यदुक्तं – “ अनृतं साहसं माया, मूर्खत्वमतिलोभता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥ १ ॥ अनंतपावरासीओ, जया उदयमागया । तया इस्थितणं पत्तं, सम्मं जाणाहि गोअमा ! || २ || " सर्वशास्त्रेष्वपि प्रायः पदे पदे तासां निन्दा दृश्यते, अतस्ता दूरतः परिहार्याः, तत्कथं तासु दानसन्मानवात्सल्यविधानं युक्तं १ उच्यते, - नायमेकान्तो यत्त्रिय एव दोषबहुलाः, पुरुषेष्वपि समानमेतत्, तेऽपि क्रूराशया दोषबहुळा नास्तिकाः । कृतघ्नाः । स्वामिद्रोहिणो विश्वस्तघातिनोऽसत्यवादिनोऽन्यधनस्त्रीसक्ता' निर्दया' देवगुरुवश्चकाश्च भूयांसोऽपि दृश्यन्ते । न च तद्दर्शनेन महापुरुषाणामवज्ञा कर्त्तुं युज्यते । एवं स्त्रीणामपि । यद्यपि कासांचिद् दोषबहुलत्वमुपलभ्यते, तथापि कासाश्चिद् गुणबहुलत्वमप्यस्ति । तीर्थकरजनन्यो हि स्त्रीत्वेपि तद्गुणगरिमयोगितया सुरेन्द्रैरपि पूज्यन्ते मुनीन्द्रैरपि स्तूयन्ते । लौकिका अध्याहुः – “ निरतिशयं गरिमाणं, तेन युवत्या वदन्ति विद्वांसः । तं कमपि वहति गर्भ, जगतामपि यो गुरुर्भवति ॥ १ ॥ " काश्चन स्वशीलप्रभावादनलं जलमिव, जलं स्थलमिव, व्यालान् शृगालानिव, विषधरं रज्जुमिव, विषममृतमिव कुर्वन्ति । चतुर्वर्णे च सङ्खे चतुर्थमङ्गं श्राविका एव । शास्त्रे च तासां निन्दाभूयस्त्वं तदासक्तिपराणां तन्निवृत्तिपरमेव । सुलसाप्रभृतयो हि श्राविकास्तीर्थ करैरपि प्रशस्यगुणाः, सुरेन्द्रैरपि स्वर्गभूमिषु श्लाघितधर्मदायः, प्रबलमिध्यात्वैरप्यक्षोभ्यसम्यक्त्वसंपदः, काश्चिच्चरमदेहाः, काश्चिद् द्वित्रादिभवान्तरितमोक्षगमनाः, शास्त्रेषु श्रूयन्ते । तदासां जननीनामिव, भगिनीनामिव, स्वपुत्रीणामिव वात्सल्यं युक्तियुक्तमेवेत्यलं " । श्रीश्राद्धविधिप्रकरणम 116
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy