________________
लाइजापोरिसि नमो वा ॥ २५ ॥जं सक्कइ तं हिअए, धरेत्तु पारेत्तु पेहए पोत्तिं । दाउं बंदणमसढो, तं चिअ पच्चकए विहिणा ॥२६॥ इच्छामो' अणुसहिंति भणिअ उवविसिअ पढइ तिण्णि थुई । मिउसद्देणं सकत्थयाइ तो चेइए । वंदे ॥२७॥ अह परिकअं चउद्दसि, दिणांम पुव्वं व तत्थ देवसिअं । सुत्तंत पडिकमिउं, तो सम्ममिमं' कम' कुणइ ॥ २८ ॥ मुहपोत्ती वंदणयं, संबुद्धा खामणं तहा लोए । वंदणपत्तेअरकामणं च वंदणयमहसुत्तं ॥२९॥ सुत्तं अब्भुट्टाणं, उस्सग्गो पुत्तिवंदणं तह य। पजंति अ खामणयं, तह चउरोत्थोभ वंदणया ॥ ३०॥ पुव्वविहिणेव सव्वं, देवसिअं वंदणाइतो कुणइ । सिज्जसुरी' उस्सग्गे, भेओ संतिथयपढणे अ॥ ३१ ॥ एवं चिअ चउमासे, वरिसे अजहकमं विही णेओ। परकचउमासवरिसेसु नवरिनामंमि नाणत्तं ॥ ३२ ।। तह उस्सग्गोजोआ, बारसवीसासमंगलगचत्ता । संबुद्धखामणं ति पण सत्त। साहूण जहसंखं ॥ ३३ ।। " हरिभद्रावश्यकवृत्तौ तु वन्दनकनियुक्तिगत चत्तारि पडिकमणे' इति गाथाव्याख्यायामेवमुक्तं संबुद्धक्षमणकविषये -" जहन्नेणवि तिनि देवसिए, परिकए पंच अवस्सं, चाउम्मासिए संवच्छरिए वि सत्त अवस्सं" पाक्षिकसूत्रवृत्तौ प्रवचनसारोद्धारवृत्युक्तद्धसामाचार्या चाप्येवमेवोक्तं । प्रतिक्रमणानुक्रमभावना पूज्यश्रीजयचन्द्रसूरिकृतग्रन्थाद् ज्ञेया । इति प्रतिक्रमणविधिः
तथा आशातनापरिहारादिकेन विधिना विश्रामणामुपलक्षणत्वात्सुखसंयमयात्राच्छादि च करोत्यर्थान् मुनीनां विशेषधर्मिष्ठश्राद्धादीनां च, विश्रामणाफलं पाग्भवयतिपश्चशतीविश्रामणाकरणोत्थचक्रयधिकबलबाहुबल्यादरिव भाव्यं । इह साधुभिरुत्सर्गतः संवाधना न कारयितव्या, ' संवाहणदतपहोअणाय' इति वचनात् । द्वितीयपक्षे(दे)साधुभ्यः सकाशात् कारयितव्या तदभावे तथाविधश्रावकादेरपि । यद्यपि मुख्यवृत्त्या भगवन्तो महर्षयो विश्रामणां न कारयन्ति, तथापि परिणामविशुद्ध्या तद्विषये क्षमाश्रमणं ददतो निर्जरालाभो विनयश्च कृतो भवति । ततः स्वाध्यायं स्वप्रज्ञानुसारेण पूर्वाधीतदिनकृत्या दिश्रावकविध्युपदेशमालाकर्मग्रन्थादिपरावर्तनरूपं ' शीलाङ्गादिरथनमस्कारवलकादिगुणनरूपं वा' चित्तैकाग्रतार्थ करोति । शीलाङ्गरथस्त्वनया गाथया विज्ञेयः । “ करणे जोएँ सनी, इंदिझे भूमाइ समणधम्मो' अ । शीलंगसहस्साणं, अट्ठारसगस्स निप्फत्ति॥१॥"'करणोत्त'-करणकारणानुमतयः। 'जोएत्ति'-मनोवाकाययोगाः। 'सन्नत्ति' आहारभयमैथुनपरिग्रहसंज्ञाः। 'इंदिअत्ति' श्रोत्रचक्षुर्घाणरसनस्पर्शनेन्द्रियाणि । 'भूमाइचि'-पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पञ्चेंद्रिया अजीवाश्च । 'समणधम्मोत्ति “ 'खंती मद्देव अज्जवे, मुत्ती तवे संजमे अबोधव्वे । सँच्चं सोअं आकिंचणं च बं" च जइधम्मो॥१॥" पाठश्चैवं-“जे नो करंति मणसा, निजिअ आहारसन्नसोइंदी । पुढविकायारंभं खंतिजुआ'ते'मुणी वंदे ॥१॥" इत्यादि । एतद्व्यक्तिश्च यन्त्रकाद्विज्ञेया । श्रमणधर्मरथपाठश्चैवं-" न हणेइ सयं साहू, मणसा आहारसन्नसंवुडओ। सोइंदिअसंवरणो, पुढविजिए खतिसंपन्नो ॥१॥" इत्यादि । एवं सामाचारीरथक्षामणारथानियमरालोचनारथतपोस्थसंसाररथधर्मरथसंयमरथांदिपाठा अपि विज्ञेयाः । विस्तरभयात्तु नोक्ताः । नमस्कारवलके च पञ्चपदान्याश्रित्यैका पूर्वानुपूर्वी, एका पश्चानुपूर्वी, शेषा अष्टादशोत्तरं शतमनानुपूर्व्यः । नवपदान्याश्रित्य पुनरनानुपूर्व्यस्तिस्रो लक्षा द्वाषष्टिः सहस्रा अष्टौ शतान्यटसप्ततिश्च । एतत्करणभावनाव्यक्तिः पूज्यश्रीजिनकीर्तिमूरिपादोपज्ञसटीकश्रीपश्चपरमेष्ठिस्तवादवसेया । एवं नमस्कारपराव
नेऽप्रापि दपशाकिनीव्यन्तरवैरिग्रहमहारोगादीनां सघो निवृत्त्यादिफळं, परत्र त्वनन्तकर्मक्षयादि । यदाह:-"जंछम्मासिअ वरिसिअ, तवेण तिव्वेण झिज्झए पावं। नमुक्कारभणणुपुव्वीगुणणेण 'तय खणद्रेण ॥१॥" शीलाङ्गरथादीनामपि गुणने मनोवाकायैकाग्येण त्रिविधमपि ध्यानं स्यात्तथा चागमः-" भंगिअसुअं गुणंतो, वट्टइतिविहे वि झाणंमीति" एवं स्वाध्यायकरणे स्वपरयोः कर्मक्षयप्रतिबोधादयोऽनेके गुणा धर्मदासश्राद्धस्येव । स हि प्रत्यहं सायं प्रतिक्रम्य स्वाध्यायं करोति, अन्यदातेन 'स्वपिता सुश्राद्धोऽपि प्रतिक्रोधनः क्रोधत्यागार्थमुपदिष्टो रुष्टः काष्ठमुद्यम्ब धावन् रात्रौ स्तंभे आस्फाल्य मतो दृष्टाहिर्जातोऽन्येधुस्तमसि तं दष्टुमागच्छन्-" तिव्वंपिपुव्वकोडीकयंपि 'सुकयं मुहुत्तमित्तेण । कोहग्गहिओ हणिलं, हहा ! हवइ भवदुगे वि दुही ॥ १ ॥" इत्यादि स्वाध्यायं तत्क्रियमाणं श्रुत्वा जातिं स्मृत्वाऽनशनं प्रपाल्य सौधर्मे सुरीभूतः सुतस्य सर्वकार्येषु सानिध्य विदधे । धर्मदासस्य चैवर्मन्यदा स्वाध्यायध्यानलीनस्यैव केवलज्ञानमुत्पेदे । अतः स्वाध्यायः कार्यः । ततः सामायिकं पारयित्वा गृहं गतो धर्म सम्यक्त्वमूलदेशविरत्यादिरूपं, सर्वकृत्येषु सर्वशक्त्या यतनाकरणादिरूपं सर्वथाईचैत्यसाधर्मिकवर्जितवासस्थानकुसंसर्गवजेनादिरूपं, नमस्कारगुणनत्रिकालचैत्यवन्दनापूजापत्याख्यानाद्याभग्रहरूपं, यथाशक्तिसप्तक्षेत्रीवित्तव्ययादिरूपं वा यथायोग्यं कथयत्युपदिशति । कलत्रपुत्रमित्रभ्रातृभृत्यभागनीस्नुषापुत्रीपौत्रपौश्रीपितव्यभ्रातृव्यवणिपुप्रादिस्वजनानां पुरस्तादिति शेषः । यदिनकृत्यं-" सव्वन्नुणा पणीअंतु, जइ धम्मं नांवगाहए । इह लोए परलोए अ, तसिं दोसेण लिप्पई॥१॥"जेण लोगहिई एसा, जो चोरभत्तदायगो । लिप्पइ सो तस्स दोसेण, एवं धम्मे विआणह ॥ २॥ तम्हा हु 'नायतत्तणं, सद्देणं तु दिणे दिणे । दन्वओ भावओ चेव, कायवमणुसासणं ॥३॥" 106
श्रीश्राद्धविधिप्रकरणम