________________
पुरुषवेदादीनां जवन्यकायस्थिति.] फायस्थितिप्रकरणम्
[३९ प्रकृतिबन्धं व्यवच्छेदयति, तं जीवमाश्रित्य प्रोक्तमार्गणात्रयस्य प्रत्येकमेकजीवाश्रया जघन्यकायस्थितिरन्तमुहूर्तप्रमिता लभ्यते । ___कश्चित्पुरुषवेदोदयेनोपशमश्रेणिमारुह्य श्रेणितश्च्युतोऽनिवृतिवादरसम्पराये भूयः पुरुषवेदमनुभवति, ततो जघन्यकालमतिक्रम्य भूय उपशमश्रेणिमारूढोऽवेदभावं भजते,तदा पुरुषवेदस्य कालोऽन्तमुहूर्त भवति । यद्वा वेदान्तरमनुभूय पुरुषत्वेन जघन्यायुषि समुत्पद्यते, ततः कालं कृत्वा पुनर्वेदान्तरं व्रजति, तमाश्रित्याऽपि पुरुषवेदस्य कालोऽन्तर्मुहूर्त लभ्यते । अनयोर्यः केवलिदृष्टया जघन्यो भवति, सोऽत्र जघन्यकायस्थितित्वेन बोध्यः।
- क्रोधमानमायानां जघन्यकायस्थितिरन्तमुहर्तप्रमाणा भवति, यतः श्रीप्रज्ञापनासूत्रवृत्तिकारैः-त्रयाणां कषायाणां क्रोधमानमायारूपाणां जघन्यकायस्थितिमेकसमयप्रमाणां निषिध्याऽनेकसमयप्रमाणेत्थमुपपादिता- 'अथैवं क्रोधादिष्वप्येकसमयता कस्मान्न लभ्यते ? उच्यते-तथास्वाभाव्यात् । तथाहि-श्रेणितः प्रतिपतन् मायाणुवेदनप्रथमसमये मानाणुवेदनप्रथमसमये क्रोधाणुवेदनप्रथमसमये वा यदि कालं करोति, कालं च कृत्वा देवलोकेषूत्पद्यते, तथापि तथास्वाभाव्यात् येन कषायोदयेन कालं कृतवान् तमेव कषायोदयं तत्राऽपि गतः सन्नन्तर्मुहूर्तमनुवर्त्तयति, एतच्चावसीयते भधिकृतसूत्रप्रामाण्यात् , ततोऽनेकसमयता क्रोधादिष्विति । तदेवं नरतिरश्चां भेदप्रभेदानां जघन्यकायस्थितिस्तत्समानत्वाचाऽन्यासामपि मार्गणानामुक्ता ॥२७,२८॥
- सम्प्रति क्रमप्राप्तानां देवगतिमार्गणाभेदप्रभेदानामेकजीवाश्रितां जघन्यकायस्थितिं वक्तुकाम आह
पलियस्स अट्ठभागों जोइसिअस्स पलिओवमं णेया।
सोहम्मसुरस्स भवे ईसाणस्सऽभहियपल्लं ॥२९॥ ... (प्रे०) पलियस्स' इत्यादि, 'पन्यस्य' पन्योपमस्य ‘अष्टभागः'अष्टमश्चासौ भागश्च अष्टभागः, पृषोदरादित्वादिह पूरणप्रत्ययलोपः, ज्योतिष्कस्य ज्योतिष्कसुरमार्गणाया एकजीवाश्रयाजघन्यकायस्थितिर्भवतीत्युपस्कारः,सुराणामनन्तरभवे सुरत्वेना-ऽनुत्पत्तेज्योतिष्काणांचजघन्यभवस्थितेर्यथोक्तप्रमाणत्वात् । विशेषतः पुनः सूर्यचन्द्रग्रहनक्षत्रसुराणां तत्सुरीणां च जघन्यतः कायस्थितिः पन्योपमस्य चतुर्भागः, तारकदेवानां तद्देवीनां च पन्योपमस्या-ऽष्टभागः,तजघन्यभवस्थितेरेतावन्मात्रत्वात् ,उक्तं च जीवसमासवृत्ती-चंदाईचगहाणं नक्खत्ताणं व देविसहियाणं । अट्ठण्डं पि जहण्णं भाऊ पलियस्स चउभागो ॥१॥ पलिओषमट्ठभाभो तारयदेवाण तह य देवीणं । होइ जहण्णं माउंxxx॥२॥"इति ।
अथ वैमानिकसुराणामेकजीवाश्रयां जघन्यकायस्थितिं वक्तुमना आदौ तावत् सौधर्मेशानसुरयोस्तामाह-'पलिओवर्म' इत्यादि, पन्योपमं 'ज्ञेया' एकजीवाश्रिता जघन्यकायस्थितिर्बोध्या, कस्य ? इत्याह-'सोहम्मसुरस्स' ति सौधर्मसुरस्य, "भवे' इत्यादि, 'भवेत्' स्यात् , 'ऐशानस्य'