________________
सटीक जंबूद्वीपसङ्ग्रहणी
wwwwwwAAA
एवभैरवते द्वात्रिंशत्सु विदेहविजयेषु च त्रयस्त्रिंशद्वैताढ्या वर्णनीया । नवरं अत्र गङ्गासिन्धवन्तिके गु, तत्र स्वधोरन्तिके । इति चतुस्त्रिंशदायतवैतादयवर्णनम् । अथ षोडशवक्षस्कारवर्णनम् । इमे वक्षस्कारा एकैकविजयान्तरिताः तथा च पूर्वविदेहेऽष्टौ वक्षस्कारा अपरविदेहेऽपि तावन्तः । इमे वक्षस्काराः कुलगिर्यन्तिके चतुःशतयोजनोच्चाः सोतासीतोदान्तिके च पश्चशतयोजनोच्चाः एतेषामभिधानानि चेमानि तद्यथा चित्रकूटः १ ब्रह्म (वर्म्म) कूटः २ नलिनीकूटः ३ एकरौलकूटः ४ त्रिकूट: ५ वैश्रमणकूटः ६ अञ्जनाख्यः ७ मातञ्जनाभिषः ८ अङ्कापाती ९ पद्मा ( पक्ष्मा) पाती १० आशीविषः ११ सुखावहः १२ चन्द्रः १३ सूरः १४ नागः १५ देवश्चेति १६ । अत्रापि स्वस्वनामाङ्किता देवा वसन्ति । इति वक्षस्कारवर्णनम् ।
५२
अथ देवकुरुषु निषधोदीच्यां सीतोदायाः पूर्वपश्चिम कूलयोः सहस्रयोजनोच्चौ सहस्रयोजनायतविस्तीर्णमूलौ सार्धसप्तशतयोजनायामविशालमध्यौ पञ्चशतयोजनदीर्घविस्तं र्णोपरिभागौ चित्रविचित्रदेवावासौ स्ववर्णकमलसद्भावाच्चित्रविचित्राभिधानौ नगौ स्तः । इति चित्रविचित्रस्वरूपम् ।
एवमेवोत्तरकुरुषु यमकाभिधौ द्वौ गिरी। नवरं स्वस्वनामदेवावासौ स्ववर्णवत्कमलवन्तौ च । इति यमकद्वयस्वरूपम् ।
अथ उत्तरकुरुषु नीलवन्तपर्वताधः नीलवन्तहृदपूर्व पश्चिमपार्श्वयोः प्रत्येकं दश दश कनकगिरयः शतशतयोजनोच्चाः शतयोजनायामविशालामूलाः, मध्ये पञ्चसप्ततियोजनाः उपरि पञ्चाशद्योजनाः । एवं विंशतिकनकनगा । एवं उत्तरकुरुचन्द्रैरवत माल्यवन्तहृद पार्श्वयोरपि । एवं सर्वसङ्ख्या शतसख्या गिरयः । एते च सर्वेऽपि काञ्चनप्रभपाथोजाश्रयत्वात् काञ्चनाख्यासुराश्रितत्वाच्च काञ्चनाख्या ज्ञेयाः । एवं देवकुरुषु चित्रोत्तरस्यां निषघाधः निषधदेव कुरुसुरप्रभसुल विद्युत्प्रभहूद पार्श्वयोरपि प्रत्येकं विंशतिः । सर्वसम्मीलने द्विशतसङ्ख्याः काञ्चनगिरयः । इति द्विशतकश्चन गिरिस्वरूपम् ।
अथ नीलवदक्षिणस्यां मेरोरुत्तरप्रतीच्यां गंधिलावत्याख्यविजयप्राध्यां उत्तरकुरुप्रतीच्यां च गन्धमादनो नामा गजदन्तपर्वतः पीतवर्णोऽस्ति पीतरत्नमयः । “गिरिगंधमायणो पीयओ अपीतकः पोतमणिमय” इति बृहत्क्षेत्रसमासतद्वृत्तिवचनप्रामाण्यात् । जंबुद्वीपप्रज्ञप्तिसूत्रे 'सव्वरयणमए' इति सर्वात्मना रत्नमय उक्तः । जंबुद्वीपसमासे तु कनकमय उक्त इति नीलवन्तान्तिके चतुःशतयोजनोच्चः पञ्चशतयोजनपृथुलः पश्चान्मात्रया मात्रया यथाक्रमं उच्चत्वे वधमानः, पृथुत्वेन हीयमानां मन्दरान्तिके पश्चशतयोजनोच्चः अङ्गुलासङ्कख्येयभागपृथुलश्व गजदन्ता कृतिभवति । अस्मिन् पर्वते कोष्टाख्यसुगन्धिद्रव्यपुटकादत्युत्तम इष्टतरो गन्धो भवति । तथा गन्धमादनाभिधो देवो महर्षिको वसत्यतस्तन्नाम शाश्वतम् । इति प्रथमो गजदन्तः ।