SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ वीत० स्तोत्र० प्रस्ता०] [११ स्पष्टितं च स्पष्टमेतत्स्पष्टतमबोधकिरणैयुगप्रधानप्रवरैः २"श्रीमत्तत्वार्थदीपनप्रदीप्रप्रदीपोपमतत्वार्थ-२२सार्वदिकसाधुकल्पकल्पनकल्पवृहत्कल्पप्रभृतिषु परमार्थपथप्रधानावधारणैः, अन्यथातु २"नाभविष्यदेव २"सकलजन्तुजातासाधारण पातवितरणविज्ञपारमार्थिकतत्वप्रधानासाधारणाचरणावगमनज्योतिरन्तरा विवेकचक्षुरुद्वाटनमैदयुगीनानां २ दुष्पमासमयोद्भूतानेकवाचालकुतीर्थिकवाचालितदिगन्तरालानुपलभ्यदिगालोकानाम् , २ तदन्तरेण च कथङ्कारमभविष्यत् सदाचारसौधसोपानारोहोऽप्या रुढानार्यजनप्रबलासङ्गजातप्रबलानार्याचारप्रभावेऽत्र युगे धर्मजिघृक्षाऽपि ! आस्तां २ तावद् दूरादेवानवगतद्रव्यभावानुकम्पाप्रथनप्रत्यलधर्ममार्ग-कामस्नेहदृष्टिरागमदिरोन्मत्तविहितानेकदुर्गमविध्नसरित्सवोत्तरणाधिगतशमसाम्राज्यसाधनसावधानसर्वसङ्गपरित्यागमहाव्रताङ्गीकारादिविधानं स्याद् 3°भवेयुश्चारम्भपरिग्रहासक्तप्रबलमिथ्यात्वमोहमदिराविह्वलान्तःकरणाविरतिराक्षसीजग्धजीवस्वरुपरमणतासत्तचा एव मुनय इति शासनोन्मूलनमित्यलम् प्रसक्तानुप्रसङ्गन । विरचिताश्च वीतरागचरणसरोजकिजल्कमधुकराभैः श्रीवस्तुपाल-कुमारपाल-साधुपेथडादिभिरनेके कोशा ज्ञानयुतिद्युतिकोशा इव भव्याब्जोबोधिनो वीतरागमतानूनमहिमासरिच्छ्रोतः प्रभवपृथ्वीधरायमानाः परञ्च हुण्डावसर्पिणीपञ्चमाररजनीरजनीचरायमाणदुष्टम्लेच्छादिभूमिपैरज्ञानतत्यवष्टब्धहृदयैर्यत्याभासैः श्रावकाभासैश्च तचातत्वविवेचनविमुखतास्वीकृतपुस्तकद्रव्यैर्विनाशिता ज्वालिताः, क्षिप्ता जलेऽतनुप्रवाहे, चिता भित्तौ, हीनाचारैनीताश्च हानि स्वीयानाचारोपद्रवरक्षणबद्धबुद्धिभिः, तथाच शेपाः शेषीभूता एवोद्भावयन्ति शासनोद्भावनामसमप्रभावनाम् । ___ तत्रापि निःस्सचाद्देशस्य, अतिह्नसीयस्त्वाद्धर्मबुद्धः, परायणत्वान्मानगिर्यारोहे, अनवबुद्धत्वात्तत्वातच्चमार्गस्य, पलायितप्रायत्वाज्ज्ञानस्य, व्याप्तत्वादनार्यभाषारुचेः, तुन्दपरिमृजबहुलत्वाल्लोकानाम् , संस्कारहीनत्वान्मतेः, अरुचेः संस्कृतभाषायाः, पूत्कारप्रायत्वगणनावतारित्वात्प्राकृतग्रन्थानाम-राजभाषावादार्यभाषाया, अनार्यभाषाया अविरतत्वान्नराणाम् , ४ जेमनवारविस्तारितजयपताकिन्वाज्जनानाम् , 'वाद्यशब्दवाचालितत्वाद्यशसः, चन्द्रोदयाद्युपकरणकरणमावोत्तीर्णमतिप्राग्भारत्वादचिमताम् , ४गौर्जर्याद्यपभ्रंशभाषाप्रधानत्वात्पूजाकारणप्रवणोपदेशकानाम् , विरलतमीभतान्येवाधुना सिद्धान्त साधनसिद्धान्तपुस्तकानि, नातः परं विज्ञानामस्ति विषादपदमन्यत् जगत्रयेऽपि । ४"परं अवलोक्यैतद्विवेकविलोचनेन स्थापयामास गूर्जरदेशीयश्रीसुरतपत्तनीयगुलाबचन्द्राख्यो देवचन्द्रतनुजोऽविगीतसिद्धान्तप्रसोधनपटुप्रसाधितज्ञानदिवाकर-श्रीमद्गणमत्प्रभृतिसकलवाङ्मयवितानविस्तारणलब्धावतारः, स्ववस्तृदेवचन्द्रपादव्यवस्थापितसप्ततिसहस्र(७००००) मानद्रम्मव्यवस्थायां पुस्तकप्रसारणप्रवणान् शेषानपस्तित्कार्यवाहकात्र जीवनचन्द्रनगीनचन्द्रादीन् परस्कृत्य, व्यवस्थाम् तत्र चानेकतरगूढतचप्रकाशनप्रभाकरसिद्धान्तलेखनव्य
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy