SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ( १४३ B ) पूज्यपादागमोद्धारकाचार्यश्रीप्रणीतः श्रुतज्ञान. म....हि.... मा.... [ आर्या ......वृत्तम् ] पृथ्याद्या व्यवहार्याः, सदा निगोदास्तथा व्यवहार्याः । यद दधति तमस्तिमिरं, भिनत्ति पटलं तयोहिं श्रुतम् ॥ सुरगणनराः सदा यत्, श्रयन्त आत्मावलम्बनं मत्त्वा । अविगान नमन्ति च पुनः पुनः श्रुतमहोऽर्हन्ति ॥ [ अनुष्टुपू. वृत्तम् ] जिनास्तीर्थं नृपा नीति प्रजाः पालि नवां नवाम् । सुवते तां परं धत्ते श्रुतमेव चिरं ननु ॥ [भुजङ्गप्रयात... वृत्तम् ] जिनेशाः सुरेशाः नरेशाः सदैव, तिमिस्रावलिं स्फेटयन्तीद्धरूपाम् । हदासां जनानां यदाऽप्यावलम्बं श्रुतं सत्ततो नम्यमेवाप्तवर्गैः ॥ जगजन्ममृत्यामयाक्तिव्यथान, व्रजैर्व्याधितं सारहीनं शरण्यम् । ससारं सदार्थ यदन्यन्न चैति, सदा तच्छ्रुतं संश्रयन्ते सुबोधाः ॥ सदा सौख्यखानेः समीहा जनानां यका स्थाद् गतान्ता गताबाधवार्ता । यथेष्टा न चोना न चान्या श्रुतात् सा, बुधैः संश्रितं तत् स्तुयात् को न विज्ञः ? ॥ [ उपजाति... वृत्तम् ] पयोविहीनं न सरो विभाति, सरोविहीनं नगरं न चाऽपि । जनेन हीनं नगरं जगत्यां वृत्तेन हीनं श्रुतमेवमिद्धम् ॥ [ बसंततिलका... वृत्तम् ] अध्यक्षमेतत् परपक्षिणां बुधे, वचः सघण्टारवमुञ्चकैर्ननु । श्रुतस्य साम्राज्यमिदं वरेण्यं शिवस्य चारित्रमनंह उद्धतम् ॥ [ शिखरिणी...वृत्तम् ] इदं शाखं भव्यैः शिवगतिपथाबद्धहृदयै— रन्यत् संचिन्त्यं नहि सुलभमेतद् भवजले । कुतीयैराक्रान्ते विपुलतर पुण्यैरधिगतं, समाराध्यैतद् भो ! वृजत सदानन्दपदवीम् ॥ श्रीभागमोद्धारक कृतिसन्दोह -द्वितीयभाग [पत्र ५३ तः ५५] उद्धतम्
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy