SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चाशक प्रस्ता०० ] १०. शुभं - परार्थ करणरूपं विद्यते येषां ते इति । ११. कुशस्याग्रतुल्या मतिः येषां तद्भावमिति । १२. दुर्गमश्चासौ दुर्गः - वप्रः ( किल्लो ) तस्य पद्या - - सुगमपदपद्धतिस्तद्वदिति । १३. श्रीमान् अविरुद्ध श्वासौ हितकृत् य उपदेशस्तस्य देशने-दाने दक्षः, एतादृशो यो जिनाम तस्मिन् इति । १४. व्यासादयः ये अन्यतीर्थ्यधर्माचार्याः, तैः प्रणीता या प्रणालिका शास्त्रपद्धतिरुपा, तथा आपूरितं हृदयं येषां तैरिति । १५. अन्तेवासिता - शिष्यत्वं, तया परिकरित इति । १६. पवित्राश्च ते अचाराश्च तेषामाचरणेन - आसेवनया प्राप्तम् आर्यात्वम् = श्रेष्ठत्वम् यया, तादृश्या आर्यायाः =साळ्याः मुखकजात् - वदनकमलादिति । १७. इयं हि गाथा सम्पूर्णैवं विज्ञेया : ××× " चक्किदुगं, हरिपणगं, चक्कीण केसवो चक्की । केसव चक्की केसव, दुचक्की केसव चक्की य ॥" १८. आर्यानां - साध्वीनां आलय: - उपाश्रयः, तस्याङ्गणं तस्मिन् इति । १९. सोपयोगमवबोधार्थं प्रयतितेऽपीति । २०. विवेकरूपं यत् विलोचनं - विशिष्ट नेत्रं, तस्य लोचने बद्धं लक्ष्यं येनेति । २१. आङ्पूर्वक' यत्' धातोः परोक्षारूपमिदम् । एतेन च प्रयोगेणैवमत्र ध्वन्यते यत् यथा हि पतनं न स्वेच्छापूर्वकम्, तथाऽत्रहार्दिक्या अपि प्रतिज्ञाया महत्त्वमुररीकुर्वाणा पूज्यपादाः आन्तरिक भावुकत्वविवशीभूताः मानहानिमपि विगणय्यैव प्रेर्यमाणा इव कयाऽप्यान्तरशक्तिना साध्वीनिकटं जग्मुरिति सूभ्यते । २२. 'वि' पूर्वम् ' नम्' धातोरयतन्यामात्मनेपदरूपमिदम् । आत्मनेपदप्रयोगेणैतस्य नमस्कारस्य स्वारसिकत्वं सूच्यते ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy