SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १०८ ] श्रीकर्मग्रन्थ० उपा० टिप्पणी २९. मूर्तत्वेन हेतुनेति शेषः, मूर्त्तत्वादेव कर्मणः अनुग्रहो-पघातकारकत्वं सङ्गच्छेत । ३०. उदयकालादूर्ध्वमित्यर्थः । ३१. बंध-मोक्षादिव्यवहारश्च द्रव्यविषयक एव संभवति न गुणसम्बन्धीति ज्ञेयमेतेन पदेन । ३२. अत्राऽऽत्मनः द्रव्यरूपत्वमुपदय द्रव्येणाऽऽत्मना सहाऽविष्वग्भावित्वं कर्मणः प्रदर्थ कर्मणोऽपि द्रव्यरुपता पौद्गलिकताऽत्र प्रतिपाद्यते । ३३. अविरुद्धाश्च ये पदार्थाः तेषां यत् प्रस्फुरणं तस्यै पटुःया प्रतिभा तया भवबद्धं व्याप्त अन्तः करणं यैषां तैरिति विग्रहः । ३४. सु-सुन्दराणि करणानि इंद्रियादीनि येषां तैरिति । ३५. स्वस्य यत् स्वरुपं तस्याऽबोधिः अज्ञानं, तया प्रवर्तितः निष्पादितः यः पुद्गलानां कार्मण वर्गणागतानां प्रचयः समूहः तन्मयाः तेन पुद्गलसमूहेन निर्वर्तितौ यौ पदार्थानां संसारिवस्तूनां चयापचयौ-लाभ-हानी, ताभ्यां जातौ हर्ष-शोको यस्येति तात्पर्यानुसारी व्युत्पत्तिरत्र बोध्या। ३६. यावत् उदित........स्वरुपाविर्भावः न ( भवेदिति शेषः ) तावदित्यध्याहार्यम् , कथं सुखमव तिष्ठेत ? इति सम्बन्धः । ३७. उदितो उदयाऽवस्थामापन्नौ सुकृतदुरितो=शुभाशुभकर्मणी तयोः नोदना-शुभाशुभप्रेरणा तस्याः विलयेन प्रभवः उत्पत्तिः यस्यैतादृशश्चासौ यथास्थितस्य आत्मस्वरुपस्य आविर्भाव इति विग्रहः । ३८. प्रतिबन्धकस्य आत्मस्वरुपाच्छादकस्य स्वरुपं, तस्यः कर्मण आगमनस्य आश्रवस्य निदानानि =हेतवः, तस्यः, कर्मणः बन्धस्य हेतवः, तेषां, बंधहेतूनां स्थानानि तस्यः कर्मणः उच्छेदः समूलनाशः तस्य फलं कारणानि च इत्यादीनामवगमः ज्ञानं तमितिविग्रहः । ३९. नुन्नं प्रेरितं (अव्यवस्थितीकृतमिति वा ) जगतां ऊर्ध्वाधोतिर्यग्रुपाणां त्रितयस्य अनुन्न= अप्रेय यथावस्थितं रुपं स्वरुपं येन तस्य इदं हि 'कर्मणः' इत्यस्य विशेषणम् । ४०. एतद्विधस्य-कार्मगः स्वरुपादिख्यापकस्येति भावः । ४१. दुष्पमा अवसर्पिण्याः पञ्चमकालः, स चासौ अरः कालचक्रविभागरुपः स, चासो राक्षसः, तेन प्रतिक्षणं विनाश्यमानः=अपसर्पणेन स्वरुप हान्या वा अस्तव्यस्तीक्रियमाणः मेघादीनां बुद्धिप्रभृतीनां गुणानां निकायः समूहः यस्येति व्युत्पत्तिरत्रार्थानुसारिणी ज्ञेया ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy