SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ आसां प्रस्तावनानां प्रथनमानन्दसागरसूरीश्वरैः श्रीमद्भिश्शास्त्रपारावारतलावगाहनावाप्तविशिष्टबोधरत्नैश्चके। चिरत्नाचार्यस्मृतिविधायिनी श्रुतोपासनाऽमीषां विदितप्रायैव । प्रस्तुतप्रस्तावनाकदम्बकात्मक आनन्दरत्नाकरोऽपि विदुषामेतेषामुपरि सद्भावाऽहोभावं जनयिष्यत्येव । प्रस्तावनापञ्चदशकेऽस्मिन् तत्तद्ग्रन्थोपयोगिनी विचारणा प्रौढ्या प्रतिपादिता वर्तते, ततश्च तत्तद्ग्रन्थाध्ययनाय समुत्सहते चेतो योग्यानाम् । विशिष्टावबोधमन्तरा प्रस्तावनावाचनमपि न सुकर सामान्यजनतानाम् । प्रस्तावनायाः काठिन्यमपाकतुं तत्तत्प्रस्तावनाया अनन्तरं साधीयसी टिप्पणी वितीर्णास्ति । टिप्पणीयं श्रीमता मुनिवराऽभयसागरेण गणिना विदधे, सेयं पिपठिषूणामतिशयेनोपयुक्ता भाविनीति स्पष्टम् । सर्वा इमाः प्रस्तावना अर्धशतकसंवत्सरपूर्वमाविर्भूताः सन्ति । अन्याः शतशो ग्रन्थानां प्रस्तावना अपि सङ्ग्रहरूपेणेत्थं प्रकटीभवेयुस्तदा श्रुतविवृद्धौ परमनिमित्तं भविष्यन्त्येव, स्यात्समेषामज्ञानतिमिरनिराकरणकुशलः सम्यग्ज्ञानसूर्योदय इति ॥ (राजपुर) विजयधर्मधुरन्धरसूरिः (तणसा) पौषशुक्लापञ्चमी (सौराष्ट्र) ग्लौतनयः ___ श्रामण्यशुद्धिहेतवः ० आगमपर्यालोचनम् गीतार्थनिश्राविहृतिः संयम-यतना परेता श्रामण्यशुद्धेः प्रधान हेतवः ॥
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy