________________
द्वात्रिंशिका
७३
तौ बिभर्तीति त्वबिम्बप्रतिबद्धशुद्ध हृदयस्कन्धोर्णिका दण्डभृत् । तथा श्रवणभृत्-अर्थात्कर्णाऽऽकारभृत्, किंवत् ?, बिम्बाऽरिवत्जिनप्रतिमापापबुद्धिलुम्पाकवत् बुट्टकर्णाssकारभूदित्यर्थः । किंकृत्वा ?, दृष्ट्वापि किं ? प्रतिमाश्रवः - गौतमा दिजीर्णप्रतिमा कर्णाऽऽकारमित्यक्षरार्थः । भावार्थस्त्वयं-वेषेण नो सुसाधुलिङ्गी, न वा लुम्पाकलिङगी, किन्तु देशोपादानाद् मिश्रलिङ्गी । प्ररूपणाविषयकमुत्सूत्रं तु प्रायः पूर्णिमीयकादिसमानमेवेति
पदर्शितमिति काव्यार्थः । इति गतो वन्ध्यः ॥
अथ क्रमागतं विवक्षित कुपाक्षिकदशके ऽन्त्यमेव पाशमतं काव्यद्वयेन दर्शयितं प्रथमकाव्येन पूजाऽरित्वमाहपूजाऽरिः प्रतिमाऽरिवज्जिनपते ! पूजाऽवसाने जने, मिथ्यादुष्कृतमादिशन्नभिमतः पाशस्तपस्व्यङ्गिनः । पञ्चाऽऽचारगतामपीन ! न विधौ वादे वदेदर्चनां, सूर्यादेः करणं तथा च कुमुनिर्मूर्तिप्रतिष्ठां पुनः ॥३०॥
व्या० - हे जिन ! हे इन-स्वामिन्! कुमुनिः - पाशचन्द्रनामा साध्वाऽऽभासः पञ्चाऽऽचारगतामपि दर्शनकरणीयत्वेन ज्ञानादिपञ्चाऽऽचारान्तर्भूतामपि, अर्चना- जिनपूजां, तथा मूर्त्यादेः करणं जिनबिम्बजिनप्रासादादिविधानं चः-पुनस्तथा मूर्तिप्रतिष्ठां प्रतिष्ठाप्यस्थापनाजिनक्रियाविशेषं विधौ वादे विधवादे न वदेदित्यन्वयः । किंलक्षणः स ? अभिमतः आभीरकल्पेषु लुम्पाकादिकुपाक्षिकेषु प्रतीतः । पुनः किंलक्षणः ?