SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशिका सत्कुलम् ॥ १॥ विना जलं सर इव, व्योमेव गतभास्करम् । अप्रतिष्ठं तथा बिम्ब, नैवमहति चारुताम् ॥२॥ इति श्रीशत्रुञ्जयमाहात्म्ये। अनुमानप्रयोगोऽपि यथा-अप्रतिष्ठितप्रतिमा न. द्रव्यस्तवार्हा, भावस्तवाऽनहत्वात्, अन्वये सुवर्णादि, व्यतिरेके च भगवानहन् सुसाधुर्वा । भावस्तवानहत्वं तु प्रतिष्ठावैफल्यप्रसङ्गभयेन तिलकाचार्येणापि स्वीकृतम्, कथमन्यथा स देवानांप्रियः स्वकपोलकल्पितप्रतिष्ठाकल्पेऽपि प्रतिष्ठाकरणक्रियाविधौ पूर्वप्रतिष्ठितप्रतिमायाः पुरस्तादेव देववन्दनादिक्रियामुपदिष्टवान् । नच देवनिर्मितप्रतिमायां हेतो गासिद्धिरंशतो बाधश्चेति शङ्कनीयं, तादृक्प्रतिमायाः पक्षाऽनन्तर्भूतत्वात् तदाराध्यत्वगतिश्चाग्रे वक्ष्यते। तस्मात् प्रतिष्ठिताया एव प्रतिमायाः पूजाभिप्रायपुरस्सरपुष्पादिहेतुकक्रियाविशेषो द्रव्यस्तवो, नान्यथा। अन्यथा गौतमादिगणभृन्मस्तके वासनिक्षेपं कुर्वतो भगवतो-वीरस्यापि द्रव्यस्तवकृतिः प्रसज्येत । एवं सत्प्रतिपक्षितमपि-जिनबिम्बप्रतिष्ठा न श्राद्धकृत्यं, यतिकृत्यं वा, साध्वनुष्ठानयोग्यप्रतिष्ठाप्यक्रियाविशेषत्वात्, साधूनामेवागमे निर्दिष्टत्वाद्वा, स्थापनाचार्यप्रतिष्ठावदाचार्यादिपदप्रतिष्ठावद्वा। व्यतिरेके यत् श्राद्धस्यैव कृत्यं तन्न साध्वनुष्ठानयोग्यप्रतिष्ठाप्यक्रियाविशेषः साधुकर्तव्यतया जिनोपदिष्टं वा यथा द्रव्यस्तवः । किश्व-साध्यव्यापकसाधनाव्यापकरूपरमण्याराध्यत्वमुपाधिरपि । किच-श्रावकेणवेति विशेष्यसंगतैवकारेणाऽन्ययोगव्यवच्छेदे सति श्रावकव्यतिरिक्ताऽकर्तव्यतासाध्ये तन्मताभिप्रायेणांशतो
SR No.022253
Book TitleDharmsagar Granth Sangraha
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages168
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy