________________
द्वात्रिंशिका
पत्त्या, पुनः किं कारयन् ?, मूर्खजनं स्वप्रतिबद्धबिश्वासिजनं अत्यागित्वेन वेश्याजनं प्रति पूजयन् पूजां कारयन, भो लोक ! त्यागित्वेन भगवतोऽर्चा न चावत्यर्थादत्यागित्वेन वेश्याजनं पूजयतु भवानित्युपदिशन्नित्यक्षरार्थः ।
भावार्थस्त्वयं यदि त्यागित्वेन भगवतः कुसुमादिना पूजा न युक्ता, युक्ता तर्हि अत्यागित्वेन वेश्याजनस्यैव पूज्यता । यथा दिवाऽभोजिनो देवदत्तस्य पीनत्वाम्यथानुपपत्त्या रात्रिभुक्ति र्व्यक्तीभवति । कलिकालतुल्यता तु पूज्यस्य भगवतोऽपूज्यत्वमपूज्यस्य च वेश्याजनस्य पूज्यत्वं दर्शयतः स्फुटमेवेति काव्यार्थः ॥
अथ निराम्नायप्रवचनार्थकरणेनोपमयोपहसन् काव्यमाहपेटा वज्रमयी रदैरिव महामुद्राङ्किता दुर्मतेरुन्मुद्रीकरणोद्यतस्य दशनव्यापत्तिहेतुर्हित ! | गम्भीरार्थमिदं तव प्रवचनं व्याख्योद्यतस्याऽऽत्मधीक्लृप्त्या वृत्तिपरम्पराद्यपमतेर्युक्तं द्विषोऽध्वच्युतेः ॥२५॥
५५
व्या० - हे हित ! जगन्मित्र ! अध्वच्युतेः- जैनमार्गभ्रष्टस्य द्विषः, इदं तव प्रवचनं - आचाराङ्गादिशास्त्रं, दशनव्यापत्तिहेतु:दन्तपातनिदानं युक्तमेवेत्यन्वयः । किंलक्षणस्य तस्य ?, आत्मधीक्लुप्त्या स्वबुद्धिकल्पनया व्याख्योद्यतस्य - व्याख्यां कर्तुमुद्यतस्य दुर्मतेधृष्टधियः, वृत्तिष्टीका, परम्परा - गुरुक्रमः, ते आदियेषां भाष्यचूर्ण्यादीनां ते वृत्तिपरम्परादयस्तत्राऽपगता मतिर्यस्य तस्य दन्तपातनिदानं युक्तमेव । केवेत्युपमयति-वज्रमयी
"
-