SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीमहावीरविज्ञप्ति " व्या० - हे विश्वार्यक्रम ! - जगदर्चनीयचरण !, हतघृणोलुम्पाकः कियोनिभावी । का चासौ योनिश्च किंयोनिः, कियोनौ भविष्यतीति किंयोनिर्भाविनी यस्य वा स कियोनिभावी भवेदित्यन्वयः । किंलक्षणः ?, प्रतिघातकः - सन्मुखघाती शरणतया स्वमाश्रितस्य हन्तेति यावत् । किं कृत्वा ?, विश्वास्य-विश्वासं जनयित्वा किं कुर्वाणः ?, षड्जीवेष्वनुकम्पयार्द्रहृदयःक्लिन्नचेतको ऽस्मीति बहिर्बाह्यवृत्त्यैव ब्रुवाणः, पुनः किंलक्षणः ? महाजडजनव्यामोहकृत् । महाजडजनो - महामूर्खलोकः तस्य व्यामोहं करोतीति महाजडजनव्यामोहकृत् । कया ?, दुर्गिराश्रोतॄणामनन्तापद्धेतुत्वेन पापभाषया, किंलक्षणया ?, त्वद्विम्बार्चनदोषदर्शनपराऽपुण्याक्षराक्षूणया- त्वद्विम्बार्चने- तव मूर्तिपूजायां, दोषदर्शने- पुष्पाद्यारम्भसम्भवेनेदं सावद्यत्वान्न जिनोपदिष्टमित्यादिरूपेण दोषाऽऽविष्करणे, पराणि - तत्पराणि यान्यपुण्याक्षराणि-अपवित्राक्षराणि पापवर्णा इतियावत्, तैरक्षूणासम्पूर्णा तयेत्यक्षरार्थः । भावार्थस्त्वयं-कियोनिभावी ५२ भवेदित्यनन्तपापकारित्वेन कस्यां योनावयमुत्पत्स्यते इति स्तोतृप्रश्नेन केवलिनामेव गम्यं यदनन्तदुःख विपाकस्थानं सूक्ष्मनिगोदादि, तत्रैवाऽस्योत्पत्तिः सूचिता । शेषं सुगममिति काव्यार्थः ॥ अथाऽस्योन्मत्तकेलितां दर्शयन् द्वितीयं काव्यमाह - नद्युतारपुरोविहारकरणं वाचंयमानां जिनाss देशः पेशलमुत्तरं विरचयन्नर्हन्नपीति प्रभो ! |
SR No.022253
Book TitleDharmsagar Granth Sangraha
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages168
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy