SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशिका सद्भावः साध्यः। तथा च बाध एव, सत्प्रतिपक्षता वा। द्वितीये पुनः स्वरूपासिद्ध एव हेतुः, पक्षे तस्याऽवर्तनात् । नहि स्त्रीषु सवस्त्रत्वं सार्वदिकं, बाल्यावस्थादौ स्नानाद्यवसरविशेषे च स्त्रीषु वस्त्रराहित्यं सर्वजनप्रतीतमेव । तस्माच्च वस्त्राभाववति मनुष्ये केवलज्ञानोत्पत्तिस्वीकारेऽवस्थाविशेषादौ स्त्रीष्वपि वस्त्रराहित्यात्केवलोत्पत्तिः केन वारयितुं शक्या ?। अथ परिग्रहरूपत्वेनाऽसंयमहेतुत्वादिति द्वितीयविकल्पे तु संयतस्त्रियो न सिद्धिमधिरोहन्ति, वस्त्रादिपरिग्रहोपेतत्वाद्देशविरतवदिति प्रयोगः सम्पन्नः। तथा च हेतुः स्वरूपासिद्ध एव । नहि संयतस्त्रीणां वस्त्रादिः परिग्रहे भवितुमर्हति, तासां वस्त्रादेः संयममात्ररक्षार्थमेव धारणात् । उक्तं चागमे "जंपि वत्थं च पायं वा, कंबलं पायपुछणं । तंपि संजमलज्जट्ठा, धारिंति परिहरंति अ ॥ १ ॥ न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा। मुच्छा परिग्गहो वुत्तो, इअ वुत्तं महेसिणा" ॥२॥ इति । न च स्वनिश्रितत्वेन वस्त्रादौ मूर्छा भवत्येवेति शङ्कनीयं। स्वशरीरशिष्यादावपि तथात्वेन मूर्छाप्रसङ्गात् कस्यापि मोक्षावाप्तिर्न स्यात् । किञ्च-भो क्षपणक! अबलानामम्बरपरिभोगः किं तीर्थकरोपदिष्टः ? तव मताऽऽकर्षकशिवभूतिप्ररूपितो वा ? अशक्यपरित्यागकृतो वा ? । आये तावदवश्यं वस्त्राऽऽवृतानामेव मुक्तिः सिद्धा । यतः 'प्रेक्षावतां हि प्रवृत्तिः स्वार्थकारुण्याभ्यां व्याप्ते'ति
SR No.022253
Book TitleDharmsagar Granth Sangraha
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages168
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy