________________
द्वात्रिंशिका श्रीमहावीरद्वात्रिंशिकायामपि तथैव प्रयोगदर्शनात् । एवमग्रेषि बोध्यम् । अयं भावः-श्रीमहावीरनिर्वाणान्नवोत्तरषट्शतेष्वतीतेषु बोटिकदृष्टिः । उक्तं च'छव्वाससयेहिं नवुत्तरेहिं तइआ सिद्धिं गयस्स वीरस्स।
तो बोडिआण दिट्ठी, रहवीरपुरे समुप्पन्न।।१।।'त्ति । श्रीवीरनिर्वाणविक्रमसंवत्सरयोरन्तरकालः सप्तत्यधिकचतुःशतमानः । तस्य च प्रागुक्तसङ्ख्याया विश्लेषे शेषमेकं शतमेकोनचत्वारिंशदधिकं स्थितं, तस्माद्विक्रमतस्तावता कालेन बोटिकोत्पत्तिः। स च बोटिकः प्रवचनलिङ्गाभ्यां सर्वथा निह्नवः। तन्मताकर्षकस्तु शिवभूतिः सहस्रमल्लाख्यापरपर्यायः प्रतीत एव ।। १ ॥ तथाकतीथीन्दुके-नवपञ्चदशैकमितवर्षे, राकाङ्कः-पूर्णिमीयकः समुत्पन्नः । अथ तिथीन्दुके इत्यत्र कप्रत्ययो बहुव्रीहिसमासवशाद् बोध्यः। समासगतिस्त्वेवं-अकाश्च तिथयश्चाङ्कतिथयस्ताभिर्युगिन्दुश्चन्द्रः सङ्ख्यावाचको यत्र संवत्सरे सोऽङ्कतिथीन्दुकस्तस्मिन्निति । एवमग्रेपि समासरचना बोध्या। परं कप्रत्ययस्य कचिद्वचनात् क्वाऽप्यभावो बोध्यः । तथा चाङ करचना ११५६ एवंविधाङ्कमिते वर्षे, राका-पूर्णिमा सा पाक्षिकत्वेनाङ कश्चिह्न यस्य स राकाङ्कः प्रादुर्भूतः। अयं भाव:श्रीविक्रमादेकोनषष्ट्यधिकैकादशशतेष्वतीतेषु पूर्णिमीयकमतोत्पत्तिः। तन्मताकर्षकस्तु चन्द्रप्रभाचार्यः। तन्मतोत्पत्तिनिदानं त्वेवं-जनपदप्रसिद्ध-चारित्रकपात्र-श्रीमुनिचन्द्रसूरिक्रियमाणजिनबिम्बप्रतिष्ठामहोत्सवध्वंसायाऽमर्षोत्कर्षाकृष्टेन सतीर्थ्य