________________
द्वात्रिंशिका
स्याद्-भवेत् तीर्थस्य तवाभीष्टत्वात्, अभीष्टस्य हितं प्रीतिहेतुरेव। सततमितिक्रियाविशेषणेन प्रीतेरव्ययत्वं, गाढतरेति विशेषणेन प्रीतेदृढत्वमसूचि । सम्प्रतिशब्देन प्रस्तुतस्तुतिकर्तृकालाध्यक्षसिद्धाऽपत्यानां द्विषतां ग्रहणं । तेनाऽतीताऽपत्यानां जमाल्यादीनामग्रहणं, भाविदत्तराज्ञःकाले सर्वेषामपि सम्भाविक्षयत्वेऽपि तदविवक्षणं च बोध्यम् । ननु नामग्राहनिरूपणं तीर्थस्य कथं हितमिति चेत् । उच्यते-स्वामिवैरिणो हि स्वामिनं प्रत्युपसर्गयितुमशक्तास्तत्सम्बन्धिजनानेवोपसर्गयन्तीत्यतः स्वामिवैरिणस्तत्सम्बन्धिजनस्याऽवश्यं प्रतीतिविषयीकर्तव्या भवन्ति । तत्प्रतीतिं च प्रतिजनं वाग्द्वारा कर्तुमशक्तेः स्वामिपुरस्ताद् विज्ञप्तिद्वारा तन्निर्वचने सर्वेषामपि तत्सम्बन्धिनां युगपत्प्रतीतिविषयीकृता भवन्ति । तथा च 'ज्ञाता हि वैरिणो नेह प्रभवन्तीति लौकिकवचनात् स्वामिसम्बन्धिनस्तीर्थस्य ते वैरिणः प्रतीतिविषयीभूता उपद्रवयितुमशक्ता भवन्ति। एवं च सति तीर्थस्य हितमेव यन्नामग्राहनिरूपणं, तीर्थस्य हितं तत् शृणु-श्रवणगोचरीकुर्विति काव्यार्थः॥
अथ स्वस्वकर्मव्युत्पन्ननामद्वारा नामग्राहं प्रसङ गादुत्पत्तिकालं च काव्यद्वयेनाहश्रीमद्विक्रमतोऽङ्करामरजनीट्वर्षे १३६ वशामुक्त्यवाक् राकाङ्कोऽङ्कतिथीन्दुके ११५६ युगनभोर्के १२०४
स्त्रीजिना द्विषन