SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५८ महावीरजिनस्तोत्रम् * व्याख्याः-एवं-प्रागुक्तप्रकारेण वीराभिधो जिनवरः श्रीवीरः किंलक्षणः ? अपरे ये वीरास्तेभ्यो वीरो-वीराधिवीर इत्यर्थः । शुभं भद्रवन्मुखं यस्य, भद्रस्य मुखमिव यो वा । शुभवल्लीनीरमिव यः। सन् शोभनो यो धर्मस्तस्य सागरः-समुद्रस्तदुपमया यशो यस्य स। अत्र स्तोत्रक 'धर्मसागर' इति नामापि सूचितं । सुभद्रं, किंलक्षणं ? अमुद्रं-मुद्रारहितममानमित्यर्थः । शर्मणां अङ्खरा-उत्पत्तिहेतवः ते विद्यन्ते 'यस्य स इति वीरविशेषणं । जगतां सर्वसुखहेतुरित्यर्थः । परम्परया शुभानुबन्धिमङ्गलं । पुनः सुभद्रं कीदृग् ? शिवपुरीपददं-मुक्तिपुरीदायकं । अत्र यत्र नगर्या स्तोत्रं कृतं तत् शिवपुरीति नामाप्यसूचि। एवं स्तुतः श्रीवीरः सुभद्रं दिशत्वित्यन्वयः ॥२६॥ Part
SR No.022253
Book TitleDharmsagar Granth Sangraha
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages168
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy