SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशिका धर्मैः पार्थिवत्वपृथुबुध्नोदराद्याकारवत्त्वादिसत्तासूचकधर्मे र्जलाधारत्वादिकार्यसूचकधर्मैश्च घटः पटादिभ्यो विषमस्तेन पूर्वोक्ता धर्मा विशेषाऽपरपर्याया विषमताख्या आख्यायन्ते । एवं पटोऽपि तन्तुवेमाकुविन्दादिजन्यत्वादिहेतुसूचकधर्मैर्वनस्पतिकत्वतन्तुम यत्वादिसत्तासूचकधर्मैः शीतत्रायकत्वादिकार्यसूचकधर्मेश्च घटादिभ्यो विषम इति तात्पर्यम् । किंभूतं विज्ञानं ? सङ्क्रान्तविश्वत्रयं, संक्रान्तं प्रतिबिम्बितं विषयीभूतं विश्वत्रयं जगत्त्रयी यत्र तत्तथा । अनेन ज्ञानातिशयो दर्शितः । च पुनः किंबिभ्राणं ? बाधवन्ध्यवचनं । बाधः - पूर्वापरविरोधस्तेन वन्ध्यं - शून्यं, परैरबाध्यं वा, तच्च तद्वचनं च बाधवन्ध्यवचनम् । किंलक्षणं ? विलसद्वचः प्रतिवचःस्याद्वादमुद्राङ्कितं, विलसन्ति-विनयाद्युपचारोपेतानि, चित्रकारिप्रमेयवाचकत्वेन श्रोतॄणां चित्ताह्लादकारीणि वा वचांसि प्रश्न रूपेण शिष्यवचनानि तेषामनुवादो वा, प्रतिवचांसि च प्रश्नितार्थनिर्वचनरूपाणि सिद्धान्तरूपेण गुरुवचनानि, स्याद्वादश्चानेकान्तवादः स एव मुद्रा, ततो द्वन्द्वः, ताभिरङ्कितम् - चिन्हीकृतमलङ्कृतमित्यर्थः । तत्र चापेक्षिकी हि प्रवचने स्याद्वादमुद्रेतिवचनात् स्याद्वादापेक्षयाऽवगन्तव्यः, अपेक्षा चैवं एकस्मिन्नेव विवक्षितघटादिवस्तुनि स्वरूपापेक्षया सत्त्वं, पररूपापेक्षया चासत्त्वमित्यादि । तादृशार्थविबोधकवचनं तु स्यादुद्घटोऽस्त्येवेत्यादिरूपेण सकलादेशरूपमवसातव्यम्। तच्च युगपदनन्तधर्मात्मकवस्तुवाचकं । उक्तं च प्रमाणनयतत्त्वालोकालङकारे
SR No.022253
Book TitleDharmsagar Granth Sangraha
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages168
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy