SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १०८ षोडशश्लोक्यां भावार्थस्त्वयम्-उत्सूत्रकन्दकुद्दालस्योपलक्षणत्वादन्यत्राऽपि निह्नवः प्रवचनबाह्य एव कथितः। तथाहि-'समुद्घातादि जिनाभिहितं वस्त्वन्यथा प्ररूपयन् प्रवचनबाह्यो भवति, यथा निह्नवा' इति तृतीयाङ्गटीकायां। तत्र चाऽऽदिकृच्छिवभूत्यादिनिह्नवो मानावरणीयादिकर्मपुद्गलैस्तन्निदानकर्मसन्तानपरम्परयाऽनन्तजन्ममरणादिहेतुकरधोनिमज्जनस्वभावत्वाद् गुरुः स्यात्। द्वितीयस्तु तदपेक्षयाऽतिशयेन गुरुर्गुरुतरः । तदपेक्षया कर्मपुद्गलैरतिभाराक्रान्तात्मा भवेदित्यर्थः। एतेन प्रथमतया उत्सूत्रप्रवर्तकस्यैव पातकं, न पुनः तत्पृष्ठिविलग्नानामिति प्रवचनानभिज्ञः कश्चिद्वदति। सोपि परास्तः। तस्य तदपेक्षया जनोत्सूत्रस्थैर्याच्छिवभूत्यादिष्वाग्रहाचोत्सूत्रपातकस्य द्विगुणत्वात् । उक्तं चोत्सूत्र० ____ 'ननु चन्द्रप्रभसूरेः प्रथममताऽऽकर्षकस्योत्सूत्रमस्तु, पाश्चात्यानां तच्छिष्याणां किं दूषणमित्याशक्य परिहरन्नाहप्राच्यैः कृतं ते नोत्सूत्रं, चेत् तत्पापं जनेऽपि न। . प्रत्युतोयं जनोत्सूत्र-स्थैर्यात् प्राच्याऽऽग्रहाच तत् ॥१॥ अस्य वृत्तिः-अहो ! शिष्य! चेद् यदि प्राच्यैः-पूर्वपुरुषैश्चन्द्रप्रभसूर्यादिभिः कृतं-विहितमुत्सूत्रं ते-तव, न उत्सूत्रं भवेत्, किन्तु सूत्रमेव । ततः पापं जनेऽपि न भवति । समग्रपारदारिकताचौर्यादिपातकानां पूर्वपुरुषकृतत्वात् पाश्चात्यलोकस्यापि तत्तत्परदारगमनादिकं कुर्वतोऽपि पातकं न जायते । अत्युत्सूत्रमाह“प्रत्युत' तदुत्सूत्रमुग्रं-उद्दण्डं स्यात्, कस्मात् ? 'जनोत्सूत्रस्थैर्यात् प्राच्याऽऽग्रहाच्च' तेनोत्सूत्रकरणेन जनस्याऽप्युत्सूत्रकरणप्रवृत्तौ
SR No.022253
Book TitleDharmsagar Granth Sangraha
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages168
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy