SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १६ भावश्यक-सप्ततिः भुत्तसेस का (क) सारसंगो चेव कुमारस्स ताल उडलडू गो भुत्तो य देणमिति । अतः परं कथासम्बन्धयोजनार्थ किश्चिदुच्यते-यथा विषमविषछ टाविह्वलीभूतं चात्मानमवलोक्य शिखिकुमारमुनिः प्रवर्द्धमान-शुद्धाध्यवसायः कृतानशनप्रतिपत्तिरूपानुत्तराऽध्यवसायः, समनुष्ठिततत्कालोचितमिथ्य दुःकृताद्यनुष्ठानविशेषविशोषितकलुषकषायश्चन्तयामास-आ: ! किमिदमसारसंसार दुर्विलसित यदेवंविधसद्धर्म-कर्मप्रवर्त्तनचिन्तावसरेऽप्यकाण्डकूष्माएडनिपतनमिव कृतान्त-कोदण्डदण्डप्रपतनं, दुर्वारप्रसरो हि मोह महाराजः प्रतिसमयमनेकाभिमनोरथपथप्रत्यर्थिनीभिभङ्गीभिरुज्जभते। तथाहि-दुःप्रतिकारां मातरमुपकरिष्यामीत्यागतः, परमपरम परिणामकारणतया तदपकाराय संवृत्तोऽस्मि । तथाऽस्या:पतिवियोग शोककुमुद्धरिष्यामीति स च द्विगुणीकृतः स्ववियोगेन, संसारपङ्काच्चैतामुद्धरिष्यामीत्यथवैवमकालोपस्थितानर्थप्रथया द्विगुणतमं क्षिप्ता दुर्यशःपङ्के । न लोकाः कलयिष्यन्ति मातुरपत्यवत्सलत्वं किन्त्वन्यथा मुग्धबुद्धितया सम्भावयिष्यन्ति । तदहो! विचित्र: कर्मपरिणाम' इत्यादि परिभावयन् विमुक्तनमस्कारसारविग्रहः प्राप ब्रह्मदेवलोकमिति । तत्रापि चतुर्थ च चतुर्दश्यामेवोक्तमिति । भत्र केचित 'जइ गेहं पइदियहपि सोहियं तहवि पक्खसंधीसु । सोहिजइ सविसेसं एवं इहयपि नायव' मित्यागमं स्वच्छन्दतयो व्याख्यानयन्त:-कल्लपक्खसंधीए विहरिस्संति' इति ज्ञापकात पञ्चदशीमेव पक्षसन्धिशब्दवाच्यतया व्यवस्थापयन्ति । तत् सर्वथा सत्पथ. प्रत्यर्थिनां प्रलापमात्रं, यतो न पक्षसन्धिशब्दवाच्या पञ्चदश्येव, चतुर्दशीपञ्चदश्योरुभयोरपि तत्शब्दाभिधेयत्वेन लोके प्रसिद्धत्वात् । तथाहि-अबलाबालगोपालका अपि प्रलपन्ति-'चउद्दसिअमावास पक्खसंधी समुहो कहं देवंतरं गमिस्ससि?'त्ति । ततः साधारणप्रयोगे सत्यपि यद्यत्र सम्भवति तत् तत्र ग्राह्यम् । यथा पशान्ते चन्द्रः क्षीयते
SR No.022251
Book TitleAavashyak Saptati
Original Sutra AuthorN/A
AuthorMunichandrasuri, Maheshwarcharya, Labhsagar Gani
PublisherAgamoddharak Granthmala
Publication Year1972
Total Pages68
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy