SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ (२०) यशीतिवर्षसहस्रेषु समतीतेषु पार्श्वप्रमुनिर्वाणम् २२, तदनन्तरं साढ़े वर्षतिद्वये गते सति श्रीवर्द्धमानस्वामिनः परमानन्दपदप्राप्तिरितिगाथापञ्चकार्थः ॥ २६ । २७ । २८ । २९ । ३०॥ अथाऽऽद्यन्तजिनयोः ऋषभवीरस्वामिनोरन्तरकालमाहउसमजिणाओ वीरो जाओ अयराण कोडिकोडीए । बायालीससहस्सेहि नवरं वरिसाण ऊणाए ॥ ३१ ॥ व्याख्या- 'उसभ'त्ति, ऋषभजिनात् द्विचत्वारिंशद्वर्षसहस्रैरुनायां सागरोपमकोक्कोट्यां गतायां वीरश्चरमतीर्थपनिर्मातः सिद्ध इति गाथार्थः। 'उसभजिणाओ'इत्यत्र पञ्चमी मर्यादायां,ततो धातूनामनेकार्थत्वात् जातः सिद्ध इत्यर्थः कार्यो नतु समुत्पन्न इति, यदाह प्रवचनसारोद्धारवृहद्वृत्तिकारः “उसमसामिणो"इत्यादिपदेष्वऽवधौ पञ्चमी,अवधिश्च द्वेधा,अभिविधिर्मर्यादा च, तत्र यद्यभिविधौ पञ्चमीतिकृत्वा समुत्पन्नो जात इति व्याख्यायते तदा ऋषभस्वाम्यादिजन्मकालाद यथोक्तमजितादिजन्मकालमानं स्यात् , ततश्च ऋषभस्वामिनः सर्वायुःकालमानेनाऽधिकेषु दुःषमसुषमारकस्यैकोननवतिपक्षेष्ववशि-' ष्यमाणेषु श्रीमहावीरस्वामिनः सिद्धिः प्रसज्येत, आगमे तु अन्यू-: माधिकेष्वेकोननवतिपक्षेष्ववशेषेषु श्रीमहावीरसिद्धिरुक्तेत्यागम विरो
SR No.022250
Book TitleEkvinshatisthan Prakaranam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherKhimchand Fulchandbhai
Publication Year1924
Total Pages80
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy