________________
ज्ञानसारे इन्द्रियजयाऽष्टकम् ।
७१.
मृगतृष्णया न पिपासोपशान्तिः, प्रत्युतोपशान्तेरभावाद् द्धिरेव, तथेन्द्रियार्थे नेन्द्रियतृष्णाया उपशमः, प्रत्युत वृद्धिरेवेति सुष्ठूक्तं 'मृगतृष्णाऽनुकारिधि ' ति । ज्ञानाऽमृतम्-ज्ञानमेव शाश्वताऽखण्डतयाऽलौकिकतृप्तिरूपमुक्तिप्रदत्वादमृतं तत्, त्यक्त्वा-विहाय, इन्द्रियकृतदृष्टिव्यामोहात्तददर्शनादिति भावः । घावन्ति-सरभसं सहसा च प्रवर्तन्ते, अत्र धावन्तीत्यनेन धावन्त्येव, न तु तृष्योपशमं यान्ति, मृगतृष्णावदिन्द्रियार्थानां तृष्णावृद्धेरेव प्रयोजकत्वात् । तथाप्रवृत्तिश्च तेषामिन्द्रियपारतन्त्र्यात्मकाज्ञानादेवेति न तेषां केवलं धावनक्लेशो वृथा, किन्वनर्थपरम्पराऽपीति ध्वन्यते । तस्मादिन्द्रिय जयोऽवश्यविधेय इति हृदयम् ।। ६ ॥ ... शिष्यप्रबोधाय प्रत्येक सोदाहरणमिन्द्रियाणामनर्थमूलत्वमाह
पराङ्गभृङ्गमीनेभयारङ्गा यान्ति दुर्दशाम् । एकैकेन्द्रियदोषाच्चेद् दुष्टे स्तैः किं न पश्चभिः ॥ ७ ॥
पतङ्गेति । चेत्-यदि, पतङ्गभृङ्गभीनेभसारङ्गाः-पतङ्गाः शलभाः, भृङ्गा भ्रमराः, मीना मत्स्याः, इभा गजाः, सारङ्गा हरिणाः, ते सर्वे । " पतङ्गः शलभ ” इति हैमः, " द्विरेफपुष्पलिड् भृङ्गषट्पदभ्रमराऽलयः " इति "पृथुरोमा झषो मत्स्यो मीनः " इति चामरः । ' " हस्तीमतङ्गजगजद्विपकनेकपाः....इभः करेणुगर्ज" इति हैमः । "सारङ्गश्चातके भृङ्गे कुरङ्गे च मतङ्गजे" इति विश्वः । एकैकेन्द्रियदोषाव-एकस्यैकस्येन्द्रियस्य चक्षुरादे>षाद्रागात्स्वस्वविषयप्रवृत्तिरूपादपराधाद्धेतोः, . . अन्यान्यप्रादु.