________________
झानसारे इन्द्रियजयाऽष्टकम्
तज्जयः सुसाधः स्यात् । यदुक्तम्-" बल मानिन्द्रियग्रामो विद्वांसमपि कर्षती "ति । "इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञा वायु वमिवाऽम्भसि ॥ तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिते "ति च । तत्मान्मुमुक्षुणा प्रथमं सर्वेन्द्रिय जय एव साध्यः. नाऽन्यथा मोक्षलाभो भवभय भङ्गश्चेति भावः ॥ १ ॥
ननु यद्यशक्तिप्रमादादिनेन्द्रियाणि जितानि न स्युस्तहि का हानिरिति ना पायमदृष्ट्वा लोकः प्रयतत इति शिष्यपतिबोधार्थमिन्द्रियाऽजयेऽपायमाह
वृद्धाम्तृष्णाजलाऽऽपूर्णेगलबालैः किलेन्द्रियैः । मृच्छमितुच्छां यच्छन्ति विकारविषपादपाः ।। २ ।।
वृद्धा इति । विकारविषपादपा:-विकागः कामक्रोधादय एव सम्यग्ज्ञानरूपचैतन्याऽपहारकसंमोह विषफलस्वाद्विषपादपा विषो. पमफलत्वाद्विषवृक्षास्ते, इन्द्रियैः-चक्षुरादीन्द्रियैरेव, आलवालैः
आवापैः, जलादिसङ्ग्रहार्थं वृक्षमूलानि परितो मध्यभागेन निम्नः पर्यन्ते उच्चो मृत्तिकादिनिर्मितवृतिविशेष आलवालम् । " स्यादालवालमावालमावाप" इत्यमरः । तृष्णाजल!ऽऽपूर्णै:-तृष्णा विषयाऽभिलाष एव विकारविषपादपवर्षकत्वाजलं तेन!ऽऽपूर्णानि परिपूर्णनि, तैस्तादृशैः सद्भिः कृत्वा, वृद्धाः-वृद्धिंगता', परं प्रकर्षमाप्ताः सन्तः, जलपूर्णैराल वालवृक्षस्य वृद्धिरुचित वेति भावः । अतुच्छाप्- अनलगां महतीं च, मूछाम्-विषयेषु रागद्वेषादिरूपं