________________
ज्ञानसारे शमाऽष्टकम्
गर्जदिति । मुनिराजस्य-मुनिर्ज्ञानगजादिसमन्वितशमसाम्राज्यसमग्रत्वादाजेव, तस्य मुनिश्रेष्ठस्य । अतादृशस्तु सामान्यतो मुनिरेव प्रजातुल्य इति ध्वनिः । गर्जज्ज्ञानगजोत्तुङ्गरङ्गद्ध्यानतुरङ्गमाः-गजेंद्भिरतिपुष्टत्वेन गललाटीं कुर्वद्भिर्लक्षणया वस्तुयाथास्म्यं तत्त्वमार्ग च प्रकाशयद्भिनिरेवोक्तप्रकारगर्जनपरत्वाद्गजैः कृत्वोत्तुङ्गाः प्राप्तोत्कर्षाः, ताश्च ताः, रजन्तो विलसमाना धाराप्रवृत्ततया नृत्यमाना इव च ध्यानान्येव तुरङ्गमा जविनोऽश्वाश्च यासां तास्तादृश्यः, ज्ञानध्यानादिगजाऽश्वादिविराजमाना इत्यर्थः। शमसाम्राज्यसम्पद:-शमस्य स्वेनोपार्जितत्वाच्छमसम्बन्धि यत्साम्राज्यं चक्रवर्तित्वं सर्वोत्कृष्टशमस्वामित्वं तस्य सम्पदः समृद्धयः, जयन्ति-सर्वोत्कर्षेण वर्तन्ते । यथा नृपस्य साम्राज्यस्य गजाश्वादयस्तद्वलादेव सुलभाः समृद्ध्यबानि भवन्ति । तथा शमवतो मुनेः शमसाम्राज्यस्य ज्ञानध्यानादीनि समृद्ध्यङ्गानि शमसाम्राज्यप्रभावात् सुलभानि भवन्तीति शमः सर्वोत्कृष्टो गुण इति तदर्थं सर्वथा यत, नीयमेव । तस्मिन्नेकस्मिन्नेव साधिते दुर्लभस्याऽपि ज्ञानादेरनुषङ्गत एव लाभादिति तात्पर्यम् ॥ ८॥ __इति श्रीज्ञानसारे प्रख्यातव्याख्यातृकविरत्न-पन्न्यासप्रवरश्रीमद्यशोभद्रविजयजीगणिवरशिष्य--पन्यासप्रवर--श्रीशुभङ्करविजयगणिविरचितायां भद्रकरोदयाख्यायां व्याख्यायां शमाष्टकं नाम षष्ठमष्टकम् ॥ ६॥
॥ इन्द्रियजयाऽष्टकम् ॥ यावद्धीन्द्रियाणां विषयेषु सकामं प्रवृत्तिस्तावन्नोक्तशमलाभ