________________
ज्ञानसारे शमाऽष्टकम्
यावदुपयोगः, नाऽन्यथा तत्सिद्धिरिति नः सा निरुपयोगत्वानिष्प्रयोजनेति भावः ॥ ३ ॥
तादृशशमलाभार्थ शिष्याणां प्रवृत्तिर्यथा स्यादिति तस्य दोषनाशकत्वमाह
ध्यानवृष्टेर्दयानद्याः शमपूरे प्रसर्पति । विकारतीरपृक्षाणां मूलादुन्मूलनं भवेत् ॥ ४ ॥
ध्यानेति । ध्यानवृष्टेः-ध्यानं समाधिर्धर्ममेघस्तस्य वृष्टिरवाऽन्तरध्यानपरम्परा, ततो हेतोः, हेतावत्र पञ्चमी। दयानद्या:दया कारुण्यभावना सैव शमपूरसमग्रत्वानदी, तस्याः, शमपूरेशम एव पूरो वेगवान् जलप्रवाहः, तस्मिन् । प्रसर्पति-प्रकर्षण सर्पति वृद्धि गच्छति सति, विकारतीरपृक्षाणाम्-विकारा रागद्वेषादयस्त एव तीरवृक्षास्तीरोद्भवा वृक्षास्तेषाम् , मूलात्-मूलत एव, उन्मूलनम्-उत्पाटनम् , विनाश इत्यर्थः । भवेत्-जायेत । मेघे वृष्टे नद्यां वारिपूरः प्रसर्पति, तद्वेगाच तीरस्थिता वृक्षा वारि. पूरवेगेन तीरभङ्गे मूलादुन्मूलिताः पतन्तीति प्रसिद्धम् । तथा ध्यानकतानस्य योगिनो दयाभावना शमपूर्णाऽहैतुको भवति, न तु रागादिप्रयोजिता, शमस्यैव सत्त्वात् , तस्मात्कषायादीनां विकाराणां समूलमेव नाशो भवति । रागादिक्षय एव शमप्रादुर्भावः, तत्सद्भावे च दया जीवमात्रविषयिण्यहेतुकी च जायते । तत्क्वाऽव. सरो विकाराणामिति शमः सर्वदोषनाशक इति सोऽवश्यमुपार्जनीय इति हृदयम् । परम्परितरूपकाऽलङ्कारः ॥ ४ ॥