SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिते 1 अस्ति-विद्यते, तदा, चित्रैः - नैकविधैः, तन्त्रयन्त्रणैः - तन्त्राणि शास्त्राणि उपलक्षणत्वात्तदभ्यासादीनि तान्येव तत्त्वबोधाऽनुपयोगित्वाच्छ्रममात्र फलत्वाद्वादप्रतिवादाद्युपयोगित्वाच्च दुष्परिणाम - प्रवृत्तिहेतुत्वाच्च यन्त्रणानि पीडाप्रकाराः, तैः, किम् १ - काक्वा न किमपि प्रयोजनमित्यर्थः । प्रत्युतोक्त दिशाऽनिष्टहेतव एव तानीति हेयप्रकाराण्येव, ग्रन्थिभिज्ज्ञानमग्नतयैत्र तत्त्वबोधाद् भावचारित्रसम्पत्तेरिति भावः । तत्र दृष्टान्तमाह- दृष्टिः - नेत्रमेव, तमोघ्नीअन्धकारमेदसमर्था, चेद्यदि, तर्हि, प्रदीपाः - स्वनामख्यातास्वमोनाशकास्तेजःप्रकाराः, क्व कुत्र, उपयुज्यन्ते - उपयोगं यान्ति । काक्वा नैव क्वाऽप्युपयुज्यन्त इत्यर्थः । तमोनाशायैव हि प्रदीपानामुपयोगो वस्तुप्रकाशो यथा स्यादिति । नेत्रेणैव चेतमोनाशेन वस्तु प्रकाशो जायते, तर्हि प्रदीपार्थं श्रमः पीडामात्र फलः । तथा ग्रन्थिभिज्ज्ञानेनैव तत्त्वप्रकाशे विविधशास्त्राऽभ्यासः पीडायै एवेत्यर्थः । मुष्टिज्ञाने लब्धे नाऽन्यज्ञानेन किमपि प्रयोजनमिति तदेवैकं ज्ञानमन्यध्यान्ध्यमात्रम् । तस्माद्विविषशास्त्राऽभ्यासे समययापनमपेक्ष्य तादृशज्ञानार्थमेव यतनीयम्, यथा श्रेय लाभ इति हृदयम् ॥ ६ ॥ ज्ञानात्परमानन्दलाभादिष्टसाधनमपि तदित्याह - ५२ मिथ्यात्वशैलपक्षच्छिज्ज्ञानदम्भोलिशोभितः । निर्भयः शक्रवद्योगी नन्दत्यानन्दनन्दने ॥ ७ ॥ मिध्यात्वेति । मिथ्यात्वशैल पक्षच्छिद् - मिध्यात्वं वस्तु
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy