SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे मोहत्यागाऽष्टकम् . स्वान्तं शिष्यमनुजिघृक्षुर्वास्तवं पदार्थमाह - शुद्धात्मद्रव्यमेवाऽहं शुद्धं ज्ञानं गुणो मम । नाऽन्योऽहं न ममाऽन्ये चेत्यदो मोहास्त्रमुल्षणम् ॥ २ ॥ शुद्धत्यादि । अहम्-अहमित्येवं साक्षात्कारविषय आत्मा, शुद्धात्मद्रव्यम्-कर्मकालुष्यादि धनादिसम्बन्धरहितत्वान्निर्मलं शुद्धनयेप्टं निरुपाधिकं चाऽऽत्मद्रव्यमात्माऽऽख्यं द्रव्यमेव, विकल्परहितचैतन्यविशिष्ट सत्तामात्रस्वरूपमित्यर्थः । एवकारेण गुणस्थानाद्यपेक्षयाऽऽरोपित चतुर्दशभेदभिन्नाऽऽत्मव्यवच्छेदः । शुद्धनये आत्मन एकरूपत्वादिति बोध्यम् । तथा, मम आत्मनः, शुद्धम्विकल्परहितत्वान्निर्विकल्पकं निरावरगमात्ममात्रविषयत्वान्निर्मलम् , ज्ञानम् सम्यग्ज्ञानम् , एवेत्यत्राऽपि सम्बध्यते । यद्वा सर्वं वाक्यं सावधारणमिति न्यायाच्छुद्धज्ञानमेवेत्यर्थः । गुणः-धर्मः, अहं शुद्ध आत्मा स्वामी शुद्धं ज्ञानं च स्वमित्यर्थः । अन्यादृशस्तु कल्पित इति स नाऽहम् , अत एवाऽन्ये उपाधयो न ममेति भावः । तदेवाऽइ-अहम् , अन्यः-अन्यादृशः, धनादिसम्बन्धोपाधिविशिष्ट. स्वादन्य इवोपलक्ष्यमाणः, न-नैव, चो हेतौ । यतः, मममत्सम्बन्धितया मम पदप्रतिपाद्याः, अन्ये धनादयो विषयाः न नैव । यतो नाऽन्यो ममाऽतोऽहं नाऽन्यः, किन्तु शुद्धात्मैवेत्यर्थः । इति-उक्तस्वरूपम् , अदः-सद्यो ज्ञायमानम् । उल्बणम्-अतिस्पष्टतया तीक्ष्णतरम् , “ स्फुटे स्पष्टं प्रकाशं प्रकटोचणे” इति हैमः । मोहास्त्रम्-मोहस्य नाशकत्वात्तत्सम्बन्ध्यायुधम् । उक्तप्रकाराऽसपयोगेण मोहस्य निश्चयेन नाशादिति भावः । एवञ्च विषय
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy